________________
५३०
व्याश्रयमहाकाव्ये [चामुण्डराजः] उपाक्रमत धर्मोर्थे धर्मेर्थश्वानुचक्रमे ।
अनुचकाम कामोपि तयोस्तेषां विवेकिनाम् ॥ २९ ॥ २९. तेषां कुमाराणां धर्मोर्थ उपाक्रमत । अप्रतिहतोभूदात्मानं यापितवान्वा द्रव्यार्थमुत्सहते स्म वा तत्परोनुज्ञातो वाभूत्स्फीत्यभूद्वा संतानेन प्रावर्तिष्ट वा तैरेव पाल्यते स्म वार्थहेतुग्भूदित्यर्थः । अर्थश्च धर्मेनुक्रमे धर्मस्थानेषु विनियोज्यमानत्वाद्धनमपि धर्मार्थमभूदित्यर्थः । तथा कामोपि तयोरनुचक्राम सन्तानवृद्धिहेतुत्वात्सन्तानवृद्ध्या राज्याद्यर्थवृद्धिहेतुत्वाच्च धर्मार्थयोhतुरभूदित्यर्थः । क्रियार्थाः सर्वेप्युभयत्रापि प्राग्वद्भाव्याः । यतः कीदृशां तेषाम् । विवेकिनां युक्तायुक्तविचारकाणाम् ॥
वृत्तौ । विनये क्रममाणानाम् ॥ सर्गे । शास्त्राय क्रमते ॥तायने । क्रममाणा। इत्यत्र “वृत्ति" [४८] इत्यादिनात्मने ।।
पराक्रमत सर्वतः। उपाक्रमतार्थे । अत्र “परोपात्" [१९] इत्यात्मने ॥ परोपीदेवेति किम् । अनुचक्राम ॥ अन्ये तु परोपाभ्यां पराक्रमेत्त्याद्यर्थाभावेपीच्छन्ति । तेन पराक्रमत । उपाक्रमत । इत्यात्मनेपदमेव । वृत्यादिपु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते । अनुचक्रमे ॥
साधु विक्रममाणत्वं गजानां प्राक्रमन्त ते ।
उपाक्रमन्त चाश्वानां यदाक्रमत भास्करः ॥ ३०॥ ३०. यदा भास्करोर्क आक्रमतोदेति स्म तदा प्रभाते ते कुमाराः साधु सुशिक्षया चतुरं यथा स्यादेवं गजानां विक्रममाणत्वं गतिं प्राक्रमन्त प्रारेभिरेङ्गीचक्रुर्वा । तथाश्वानां च विक्रममाणत्वं धौरितादिगतिपञ्च
१ ए ई स्म त°. २ ए वार्थो हे'. ३ सी °चपक्र. ४ ई थः । xxx क्रिया. ५ डीभाव्या । य. ६ बी ‘मतः स. ७ सी मतसर्थे । डी मत धमोर्थे ।। ८ ई पादिति. ९ बी न्ये प०. १० डी मते । उ॰. ११ सी ममण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org