SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ५३१ [ह० ३.३.५३.] सप्तमः सर्गः। कमुपाक्रमन्त । एतेनैषां गजाश्वशिक्षाकौशलोक्तिः । प्रातर्हि गजाश्वशिक्षाकुशला राजपुत्रा हस्तिनोश्वांश्च सुगतिं शिक्षयन्तीति स्थितिः ।। विक्रममाणत्वम् । अत्र "वेः स्वार्थे" [५०] इत्यात्मने ॥ प्राक्रमन्त । उपाक्रमन्त । इत्यन्न "प्रोपादारम्भे' [५१] इत्यात्मने ॥ आक्रमत भास्करः । अन्न "आङः" [५२] इत्यादिनात्मने ॥ पित्राज्ञामाददानोथ वल्लभः कण्टकच्छिदे । प्रतस्थेश्वैर्मुखं कूर्मो व्यादाढ्यादाच भूर्यथा ॥३१॥ ३१. अथ वल्लभः पित्राज्ञां चामुण्डराजादेशमाददानोङ्गीकुर्वन्सन्कण्टकच्छिदे मालव्यदेशाधिपतेः शत्रोरुच्छित्तयेश्वैः कृत्वा तथातिबाहुल्याद्गाढसंमर्दैन प्रतस्थे । यथा कूर्मः कमठो मुखं व्यादागाढभारपीडया प्रसारितवान् । भूः पृथ्वी व्यादाच्च विदीर्णा ॥ चामुण्डराज: किलातिकामाद्विकलीभूत: सन्भगिन्यों वाचिणिदेव्या राज्यात्स्फेटयित्वा तत्पुत्रो वल्लभो राज्ये प्रतिष्ठितः । चामुण्डराजेन चाभिमानवशादात्मसाधनार्थं वाराणस्यां गच्छता मालविकैविलुण्ठितच्छत्रादिराजचिह्नकेन पत्तन आगत्य वल्लभस्याज्ञा दत्ता यदि त्वं मदीयः पुत्रस्तदा मालविकेभ्यो मदीयच्छत्रादीन्मोचयेति वस्तुस्वरूपम् । एतच्च वर्ण्यत्वेनाधिकृतस्योपनिबध्यमानमनुचितमिति पित्राज्ञामाददान इत्यनेन सूचितम् ।। आददानः । अत्र “दागः" [५३] इत्यादिनात्मने ॥ अस्वास्यप्रसारविकाश इति किम् । कूर्मो मुखं व्यादात् । भूादात् ॥ १ ए बी सकण्ट. २ बी कच्छेदे. ३ डी लवदे'. ४ °ई एफ 'न्या चाचि. ५ ई एफ ज्यात्स्फोट'. ६ ए वारणस्यां. बी वाणारस्यां. ७ ए सी डी लवकै. ८ बी अश्वास्य'. ९ बी प्रकार, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy