SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ [ है० ३.३.४७.] सप्तमः सर्गः। ___ ५२९ कल्प्तास्थ प्रभवोस्माकं भृत्या वः कल्पितास्महे । कामदक्रममाणानां समक्रामन्हदीति ते ॥ २७ ॥ २७. स्पष्टः । किं तु । कल्तास्थ संपत्स्यध्वे । ते कुमाराः । क्रामदक्रममाणानां क्रामन्तश्च गच्छन्तस्तरुणा अक्रममाणाश्चाजङ्गमा वृद्धाः । तेषां हृदि चित्ते समक्रामन्संक्रान्ताः । प्रभुत्वोचिताखिलगुणालंकृतत्वात्सचराचरलोकस्यापि चित्ते भाविप्रभुत्वेनामी प्रतिभासिता इत्यर्थः ॥ कल्तास्थ कल्पितामहे । अत्र “कृपः श्वस्तन्याम्" [१६] इति वात्मने ॥ अक्रममाणानाम् कामत् । इत्यत्र "क्रमः” [४७] इत्यादिना वात्मने ॥ अनुपसर्गादिति किम् । समक्रामन् ॥ विनये क्रममाणानां शास्त्राय क्रमते स्म धीः । क्रममाणा च सा तेषां पराक्रमत सर्वतः ॥ २८ ॥ २८. तेषां कुमाराणां विनय उपाध्यायस्य नम्रतादिक्रियायां क्रममाणानामस्खलितात्मनामात्मानं यापयतां वा विनयपराणां सतामित्यर्थः । धीः शास्त्राय तर्कादिग्रन्थाय क्रमते स्मोत्सहते स्म तत्परा वानुज्ञाता वाभूत् । सा च तेषां धीः क्रममाणा शास्त्रार्थावगाहनास्फीतीभवन्ती संतानेन प्रवर्तमाना वामीभिरेवानुकूलाहाराद्यासेवनेन पाल्यमाना वा सती सर्वतः सर्वकार्येषु पराक्रमताप्रतिहताभूदात्मानं यापितवती वोत्सहते स्म वा तत्पग वानुज्ञाता वाभूत्स्फीत्यभूद्वा संतानेन प्रावर्तिष्ट वा ।। १ डी के भूत्या. २ ए त्या व क. १सी किं तुः क. २ बी रुणा आक्र° ३ बी सी ई ०५: स्वस्त° ४ बी समाका. ५ डी नमनादि. ६ सी र्काय प्र. ७ ए °ते स्म. ८ सी सेवाने. ९ सीर्वका. १० एपिभव'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy