________________
५२८
व्याश्रयमहाकाव्ये [चामुण्डराजः] छन्दसामृग्यजुस्साम्नाम् । आदिपुंसां ब्रह्मविष्णुहराणाम् । एषां कुमाराणाम् ॥
अद्योतिष्ट अद्युतत् । अरोचिष्ट अरुचत् । इत्यत्र "द्युयोद्यतन्याम्" [४४] इति वात्मने ॥
कृते विवर्तिषमाणा न्यविकृत्सन्कलेरमी ।
काले वय॑त्यवतिष्यमाणे तन्नेदृशा ध्रुवम् ॥२५॥ २५. यस्माद्धेतोरमी कुमाराः कृत उपचारात्कृतयुगकालोचिते दानशीलादिधर्मकृत्ये । विवर्तिषमाणाः प्रवर्तितुमिच्छन्तैः सन्त: कले: कलिकालोचितात्परद्रोहवञ्चनादिमहापापान्यविवृत्सन्निवर्तितुमैच्छन् । तत्तस्माद्धेतोः । वर्त्यति भविष्यति । अवर्तिष्यमाणे भूते वर्तमाने च काले । ध्रुवमवश्यम् । नेदृशा नैषां सदृशाः पुण्यात्मानः केपि सन्ति भविष्यन्त्यभूवन्निति च गम्यते ॥
प्रविवर्धिषमाणोपि नैषां वर्धिष्यते खलः। विवृत्सन्वय॑ति सुहृनिश्चिक्य इति कोविदः ॥२६॥ २६. स्पष्टः । किं तु । कोविदैरङ्गविद्यादिनिपुणैर्निश्चिक्ये शारीरिकतादृकुभलक्षणादिसम्यग्विचारेणया निर्णीतम् ॥
वस्य॑ति अवर्तिष्यमाणे। न्यविवृत्सन् विवर्तिषमाणाः ॥ वृधूङ् । वर्त्यति वर्धिष्यते । विवृत्सन् प्रविवर्धिषमाणः । अत्र "वृधः स्यसनोः" [५] इत्यात्मने वा ॥
१ ए वर्सत्य. · १ ए °सा रुग्य'. २ ई नेपदम् ॥. ३ बी सी डी दिमहाध. ४ ए माणा प्र. ५ ई न्तः क. ६ बी चित्यात्प०. ७ ए तापर. ८ सी दिमिहा. ९ ए तिमै १० ए सन्त्यम. ११ ए किंतुः। को१२ ई रणाया. १३ सी माणा अ° डी माणाः । अ. १४ ए °सरित्या'.
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org