________________
[है० ३.३.४३.] सप्तमः सर्गः। ५२७
मा मृषीष्टेत्यनिद्रायद्गुर्वाशीष्वपि शात्रवम् ।
ताननिद्रायमाणान्द्राक्श्रुत्वामृत नु मूर्छितम् ॥२३॥ २३. अनिद्रावन्तो निद्रावन्तो भवन्ति “डाँचोहितादिभ्यः पित्" [३.४.३०] इति क्यति निद्रायमाणा न तथा ये तानुद्यमिनः कुमाराञ् श्रुत्वा शात्रवमरिवृन्दं द्राङ् मूर्छितं महाभयाकुलत्वेनाचेतनं सदमृत नु मृतमिवाभूत् । कास्वपि सतीषु । अनिद्रायन्तस्तपोध्यानादौ जागरूका ये गुरवस्तेषामाशीःषु । कथमित्याह । मा मृषीष्टेति कुशली भूया इत्यर्थ इति ॥
अरिषड्वर्ग व्यनयन्त । इत्यत्र “कर्तृस्थ" [४०] इत्यादिनात्मने ॥ कर्तृस्थेति किम् । आर्ततां व्यनयन् । अमूर्तेति किम् । कर्फ व्यनयन् ॥ शीयमानस्य । इत्यत्र “शदेः शिति" [१] इत्यात्मने ॥ अमृत । मा मृषीष्ट । म्रियमाणस्य । इत्यत्र “म्रियतेः " [४२] इत्यादिनात्मने ॥
अनिद्रायमाणान् । अनिद्रायत् । इत्यन्न "क्यको न वा" [४३] इति वात्मने ॥
नाद्योतिष्ट तथानीनां छन्दसामधुतन्न च ।
नारोचिष्टादिपुंसां वा यथैषामरुचत्रयी ॥२४॥ २४. स्पष्टः । किं तु । अग्नीनां दक्षिणाग्निगार्हपत्याहवनीयानाम् । १ ई त्रयम् ॥
१ सी डाउलोहि'. २ बी 'तिक्यिलि. ३ एङि यनि. ४ डी सद् मृतमि. ५ डी तीष्वप्यनि. ६ सी जागुरू. ७ ए गुरुव. ८ ई शीष्वपि । क. ९ सी षड् व्य. १० ए °ने । Xxx अनि. ११ बी न् । सीय. १२ सी क्यङो न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org