________________
५२६
ढ्याश्रयमहाकाव्ये
[चामुण्डराजः]
उपनिन्ये गुरुस्तांस्त्रीभृत्यानिव महीपतिः।
कारं विनयमानाश्च प्रजाः प्रेक्षन्त तान्मुदा ॥२१॥ २१. यथा महीपतिश्चामुण्डराजो भृत्यानुपनिन्ये वेतनेनात्मसमीपं प्रापयत्तथा गुरुरुपाध्यायंस्त्रींस्तान्कुमारीनुपनिन्य आत्मानमाचार्य कुवंस्तानध्यापनार्थमात्मसमीपं प्रापयत् । तथा कारं राजग्राह्यं भागं विनयमांना दानेने शोधयन्त्यः प्रजास्तांस्त्रीन्मुदामी नः पालयिष्यन्तीति चिन्तोत्पन्नहर्षेण प्रेक्षन्त च ॥
भुङ्क्ते । अत्र "भुनजोत्राणे" [३०] इत्यात्मने ॥ अत्राण इति किम् । अभुनक् ॥ पितुरनुजहाते । अत्र "हृगो गत" [३८] इत्यादिनात्मने ॥ नयमानौ नयागमे । गुरुस्तानुपनिन्ये । भृत्यानिवोपनिन्ये । यमुदानयमाना । नयते सुधारसे । कारं विनयमानाः । अर्थान्विनेष्यमाणः । अत्र "पूजाचार्यक" [३९] इत्यादिना पूजादिषु क्रमेणात्मने ॥
व्यनयन्तारिषड्वर्ग ते कर्फ व्यनयञ्श्रमात् । व्यनयञ्शीयमानस्य म्रियमाणस्य चार्तताम् ॥ २२ ॥ २२. ते कुमारा अरिषड़र्गम् । षण्णां क्रोधादीनां वर्गः षड्डोरिः शत्रुर्यः षड़र्गस्तम् । व्यनयन्त जितेन्द्रियत्वेनाशमयन्त । तथा श्रमाच्छनाभ्यासाद्धेतोः कर्फ श्लेष्माणं व्यनयन् । श्रमेण हि कफः शाम्यति । तथा कारुणिकत्वाच्छीयमानस्य परपराभवादिना दुःखिनो म्रियमाणस्य महाव्याध्यादिना प्राणांस्त्यजतश्चार्ततां पीडां व्यनयपरित्राणभैषज्यादिसंपादनेनोपाशमयन् ॥ १ ए प्रजा प्रै'. २ ए ता मुदा ॥. ३ सी माण'. १ सी डी यस्त्रीतान्कु . २ ए रान्नुप. ३ सी डी°मानदा. ४ सी न सोध' डी न साध'. ५ सी मान । न. ६ बी नोपश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org