SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५२२ व्याश्रयमहाकाव्ये [ चामुण्डराजः ] राज्ञो दुर्लभराजोभूत्पुत्रोन्य इति तर्कभूः । नोदयुङ्गासुरः कोपि स्वं न्ययुतेह किं हरिः ॥ १३ ॥ १३. राज्ञो दुर्लभराजो नामान्यो द्वितीय: पुत्रोभूत् । कीदृक् । तर्कभूः । एवंविधस्य लोकवितर्कस्य स्थानम् । एवं लोकैर्वितमाण इत्यर्थः । कथमित्याह । यस्मादिह दुर्लभराजे सत्युद्भूतभयातिरेकेण कोप्यसुरो नोदयुङ्क नोदयच्छन्न कोपि दैत्यो मस्तकमुत्पाटि - तवानित्यर्थः । तत्किमिह दुर्लभे हरिर्विष्णुः स्वमात्मानं न्ययुङ्क व्यापारितवान् । दुर्लभराजरूपी किमयं हरिरभूदित्यर्थः । हरौ ह्युत्पन्नेसुरः कोपि नोयुङ्ग इति ॥ प्रयुञ्जन्यज्ञपात्राणि परिक्रेष्यत आशिषः । बुद्ध्या विक्रेप्यते शुक्रं सतोवक्रेप्यते गुणैः ॥ १४ ॥ शैलान्विजेष्यते स्थाम्नारीन्पराजेष्यते बलैः । ज्ञैः संक्ष्णविष्यते प्रज्ञां दैवज्ञैरित्यशंस्यसौ ॥ १५ ॥ १४, १५. असौ दुर्लभो देवज्ञैर्ज्योतिषिकैर्जन्म कुण्डलिकास्थशुभग्रहपातविचारणयेत्येवंविधोशंसि कथितः । यथा यज्ञपात्राणि यागभाजनानि प्रयुञ्जन्यज्ञे व्यापारयन्यज्ञं कारयन्नित्यर्थः । असावाशिषो यैष्ट्रादिप्रयुक्ताशीर्वादान्परिष्यते संग्रहीष्यतीत्यर्थः । तथा बुद्ध्या कृत्वा शुक्रं विक्रेध्यते पराजेष्यत इत्यर्थः । तथा गुणैः कृत्वा सतः साधूनवत्रेष्यत आवर्जयिष्यतीत्यर्थः । तथा स्थाना स्थैर्येण बलेन वा कृत्वा शैलान्विजेष्यते । तथा बलैः सैन्यैः कृत्वारीन्पराजेष्यते । १ सी 'ज्ञोभू. १ ए ह । कस्मादि . २ डी 'रूपः कि० ३ डी 'शैज्योंति ४ डी यज्वादि . ५ सी 'वावीन्य'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy