________________
[ है० ३.३.३२.] सप्तमः सर्गः।
५२३ तथा ज्ञैः पण्डितैः सह प्रज्ञां संक्ष्णविष्यते शास्त्रविनोदेन निर्मलीकरिष्यति । सर्वगुणान्वितो महाराजाधिराजोयं भविष्यतीति सर्वविशेषणतात्पर्यार्थ इति ॥
उदयुत । न्ययुत । इत्यत्र "उत्स्वराद्” [२६] इत्यादिनात्मने ॥ अयज्ञतत्पात्र इति किम् । प्रयुञ्जन्यज्ञपात्राणि ॥
परिफ्रेष्यते । विक्रेष्यते। अवक्रेप्यते । अत्र "परिवि०" [२७] इत्यादिनात्मने ॥ पराजेष्यते । विजेष्यते । अत्र “परावेर्जेः" [२८] इत्यात्मने ॥ संक्ष्णविष्यते । अत्र "समः क्ष्णोः” [२९] इत्यात्मने ॥
जन्मास्योचरमाणोपस्किरमाणदृषध्वनिः ।
संचेरे तुरगैास्थलोको वर्धयितुं नृपान् ॥ १६ ॥
१६. द्वास्थलोको नृपान्वर्धयितुं तुरगैः कृत्वा संचेरेभ्रमत् । कीहक्सन् । अस्य दुर्लभस्य जन्मोच्चरमाण: । अन्तर्भूतणिगर्थः सकर्मकः । उच्चारयन् । अत एवापस्किरमाणो हृष्टत्वात्तटादि विलिखन्यो वृषः शण्डस्तस्येव हर्षप्रेकर्षेणोदात्तो गम्भीरश्च ध्वनिर्यस्य सः॥ अपस्किरमाण । इत्यत्र “अपस्किरः" [३०] इत्यात्मने ॥ जन्मोच्चरमाणः । अत्र "उदश्चरैः साप्यात्" [३१] इत्यात्मने ॥ तुरगैः संचरे । अत्र "समस्तृतीयया" [३२] इत्यात्मने ॥
१ सी डी °न्वितम. २ ए शेषेण. ३ बी उत्सरा'. ४ ए समक्ष्णोः . ५ बी सी डी भराजस्य. ६ डीभूतोत्रणि. ७ ए एवोप. ८ सी डी विलखन्या वृ. ९ सी डी प्रहर्षे. १० सी डी °रः सोप्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org