________________
[है० १.३.१६.] प्रथमः सर्गः।
पदार्थ ह्यस्तनह्यद्यापश्यल्लोको निषेवते ।
अत्र त्रैलोक्यसम्राज हरिपूज्यं ज्वलद्दयुतिम् ॥ ६४ ॥ ६४. अत्र पुरे पदार्थ यौवनसंपदादिकं ह्यस्तनं कल्ये भवमद्य वर्तमानेह्रयपश्यन् सन् लोकप्रैलोक्यसम्राजं त्रिजगत्स्वामिनं श्रीमदहन्तं निषेवतेनित्यरूपं संसारं भावयंस्तदुच्छेदायाराधयति । किंभूतम् । हरिपूज्यं शक्राय॑ ज्वलक्ष्युतिं स्फुरत्कान्तिम् । योपि लोको ह्यस्तनं पदार्थ धनादि चौराद्यपहृतत्वेनाद्यापश्यन् स्यात्स तत्प्राप्त्यर्थ ज्वलड्युति स्फुरत्तेजसमत एव हरिपूज्यं विष्णुमिवाय॑ त्रैलोक्यसम्राजं महाराज निषेवत इत्युक्तिः ॥
मन्द हलत् । स्त्रैणम्हालयेत् । असंहृवानः । आत्मानन्द्रुते । पदार्थ ह्यस्तनम् । यस्तनह्यद्य। स्वैरं ह्वलत् । कुलम्हालयति। निर्मातुं हत्तिम् । हत्तिह्लादित। इत्यत्र "मनयवे" [१५] इत्यादिनानुस्वारानुनासिकौ स्वौ पर्यायेण ॥ मादिपर इति किम् । सम्राजं हरि॥ ह इति किम् । पूज्यं ज्वलत् ॥ सम्राजम् । इत्यत्र “सम्राट्" [१६] इति मस्यानुस्वाराभावो निपात्यते ॥
माङ् शौर्यवृत्तौ प्राङ्छास्त्रे प्राङ्गमे प्राङ् समाधिषु । प्राङ् सत्ये माङ् षड्दर्शन्यां प्राङ् षडङ्ग्यामितो जनः ॥६५॥ ६५. अस्मिन् “आद्यादिभ्यस्तस्" [७.२.८४.] इति तसि इतोस्मिन्पुरे जनः शौर्यवृत्तौ प्राङ् प्रथमोस्ति । एवमग्रेतना अपि प्राशब्दा योज्याः । शास्त्रे कार्यकारणयोरभेदाच्छास्त्रशब्देन तत्परिज्ञानमुच्यते तत्र । एवं षर्शनीषडङ्गीशब्दाभ्यामपि । शम इन्द्रियजये । समाधिषु
१ एफ् क्यसाम्रा.
१ एफ °न् सन् त. २ एफ नय्ह्यद्य ।. ३ एफ वलेल्या. ४ एफण मनयादि. ५ वी डशिनी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org