SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४४ व्याश्रयमहाकाव्ये [मूलराजः] अत्र मन्द मलत्स्त्रैणम्सालयेत्कस्य नो मनः। स्वैरै हलत्करिकुलम्हालयत्यवनीमपि ॥ ६२॥ ६२. अत्र पुरे मन्दं मन्थरं झलद्गच्छत् स्त्रैणं स्त्रीसमूहः कस्य वशिनोपि मनो नो ह्यालयेत् सोत्कण्ठं न कुर्यात् । किं तु सर्वस्यापि । तथापिभिन्नक्रमे खैरमित्यस्माज् ज्ञेयः । स्वैरमपि स्वेच्छयापि मन्दमपीत्यर्थः । हलद्गच्छत्करिकुलं हस्तिवृन्दमवनिं भूमिं ह्वालयति गिरिवन्महतमत्वात्कम्पयति । यद्वा । अपिर्यथास्थान एव योज्यः। आस्तां तावद्यजनादि कम्पयति यावतावनीमपि । अवनी ह्यचलत्वेन प्रसिद्धा । अत्र च स्त्रैणहास्तिकयोः समानधर्योक्त्योपमानोपमेयतो व्यज्यते । यथात्र हास्तिकं स्वैरं चलवनीमपि चालयति तथा मन्थरं चलत्रैणं वर्शिनामपि मन इति ॥ अभ्यागतानां निर्मातुं हत्तिल्हादितमानसः । असंहृवान आत्मानन्हृतेर्थे नात्र कश्चन ॥ ६३ ॥ ६३. अत्र पुरेभ्यागतानामतिथीनां हृत्तिं पाद्यभोजनवस्त्राद्यातिथ्यसंपादनेनानन्दं निर्मातुं कर्तुं कश्चन कोप्यर्थ द्रव्यं न हृते सांप्रतं व्यवहारेषु लाभो नास्ति प्रत्युत हानिरेवेत्यतः क द्रव्यमिति प्रकारेण न गोपायति । किं तु तदर्थे सर्वखं व्ययतीत्यर्थः । कीदृक् सन् । हादितं धार्मिकोदारत्वादतिथिं दृष्ट्वा प्रमोदितं मानसं चित्तं येन स तथा । अत एवासहृवानोतिथिदृष्टिवञ्चनेनातिरोधानः॥ १ डी स्त्रैणं झल'. १ सी डी वदव. २ बी सी डी धर्मोक्त्यो ३ ए ता व्यंज्य'. ४ एफशि मां म. ५ एफ ताम'. ६ सी डी त्ति खाद्य”. ७ एफू यते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy