________________
[है० १.३.१४.] प्रथमः सर्गः। दिति प्रच्छन्नगत्या गर्हितं विचरन्ति । यतो दूरमनिकटं यथा स्यादेवमत्युन्नतत्वात् दन्द्रमिता कुटिलं गता छाया येषां तांस्तथा वनाधिष्ठायकदैवतविशेषप्रभावात्सदा पम्फुलितानत्यर्थ फलितान् । एतेनात्रत्यतरूणां छायाफलादिना स्वर्वक्षेभ्योप्यत्युत्कृष्टतोक्ता ॥
रंरम्यन्ते जना गोभिरभ्रंलिहवहल्लिहैः ।
प्रीयन्ते काम्यतपसः संयताः सय्यतैरिह ॥ ६१॥ .६१. इह पुरे जना लोका अभ्रं मेघ लिहन्ति स्थूलोन्नतत्वात्स्पृशन्त्यभ्रंलिहा ये वह ककुदं लिहन्ति जातिस्वभावाजिह्वया स्पृशन्ति वहल्लिहास्तैोभिवृषभैः कृत्वा रंरम्यन्ते वाहादिना होडापातनेन परस्परमत्यर्थ क्रीडन्ति । एतेन जनानामतिसुखितत्वोक्तिः । तथेह काम्यमभिलषणीयं तपो यैस्ते संयताः सुविहितमुनयः सँय्यतैः सुविहितसाधुभिः सह प्रीयन्ते एकधर्मस्नेहेन स्निह्यन्ति । एतेनात्र सुविहितानां सुविहितैः सह श्राद्धभक्तादिना न विरोध इत्युक्तम् ॥
चक्रम्यते चक्रमण । चंचलति चर्यन्ते । दंदमति दन्द्रमित । पंफुलत् पैम्फुलितान् । चतुरं चंचलति रम्यञ्चक्रम्यते । मंदं दंद्रमति दूरन्दंद्रमित । संयंताः सयतैः । अभ्रंलिहवहल्लिहैः । इत्यत्र "तौ मुम" [१४] इत्यादिना म्वागमस्य पदान्ते वर्तमानस्य च मस्य स्वावगुस्वारानुनासिकौ वर्गों पर्यायेण । पदान्त इत्येव । काम्य । स्वाविति किम् । रम्यते । स्त्रैणं सर्वः ।
१ए सी डी पम्फलि°. २ एफ तान् ए. ३ एफ् भ्योप्युत्कृ. ४ एफ होडपा. ५ ए सी संयुताः. ६ ए सी संयतैः. ७ एफ भक्त्यादि. ८ ए सी डी पम्फल'. ९ ए सी डी पम्फलि. १० ए °यतैः सं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org