SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४२ व्याश्रयमहाकाव्ये [मूलराजः] ___ सस्कर्ता । इत्यत्र "लुक्" [१३] इति लुगन्तादेशः। पृथग्योगादनुस्वारानुनासिकौ च पूर्वस्येति निवृत्तमिति तौ न भवतः ॥ केचित्त्वत्राप्यनुनासिकमिच्छन्ति । सँस्कर्तुम् ॥ चतुरं चंचलत्यश्वा मंदं दंद्रमति द्विपाः । रम्यञ्चक्रम्यते स्त्रैणं सर्वोस्मिन्पंफुलद्गुणः॥ ५९॥ ५९. अस्मिन्पुरे चतुरं धौरितकादिगतिबन्धुरं यथा स्यादेवमश्वाश्चंचलति कुटिलं चलन्ति । वल्गन्तीत्यर्थः । यङ्लुबन्तः । तथा द्विपा गजा मन्दं सलीलं यथा स्यादेवं दंद्रमति कुटिलं गच्छन्ति । तथा स्त्रैणं स्त्रीसमूहो रम्यं सलीलेमन्थरं यथा स्यादेवं चंक्रम्यते कुटिलं गच्छन्ति । एवं च न केवलमश्वादीनामुत्कृष्टगुणत्वं किं त्वस्मिन् सर्वोपि घटपटादिः पदार्थः पंफुलतोतिशयेन फलन्तोतिविलसन्तो गुणाः सौन्दर्यादयो यस्य स पंफुलद्गुणोस्ति । सर्वक यत्र वस्तु गुणोत्कृष्टमित्यर्थः ॥ दूरन्दन्द्रमितच्छायान् सदा पम्फुलितांस्तरून् । खचङ्क्रमणकन्याश्च चञ्चूयन्तेत्र कौतुकात् ॥ ६॥ ६०. ख आकाशे कुटिलं क्रामन्तीत्येवंशीला "द्रमक्रम" [ ५.२.४६] इत्यादिनाने खचकमणा विद्याधरादयस्तेषां कन्या बालिका अत्र पुरे वर्तमानांस्तरूनुपवनद्रुमान् कौतुकाच्चञ्चूर्यन्ते मास्मान् जनश्चौर्य इत्यपवादी १ ए सी डी पम्फलि. १ ए बी सी डी धौरतिका . २ सी डी एफ लीलं म. ३ एफ णवत्त्वं. ४ सी डी एफ् दिप. ५ ए पंफल'. सी डी पुंफल'. ६ सी डी तिवि. ७ एफ पंफल'. सीडी पुंफल'. ८ बी डी मतीत्ये'. ९ बी सी ला युचंक्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy