SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराज: ] चित्तैकाग्र्येषु । सत्ये सत्यवादे । पर्शन्यां षण्णां दर्शनानां मतानां जैनादिशास्त्राणां समाहारे । षडङ्ग्यां षण्णामङ्गानां शिक्षाकल्पव्याकरणनिरुक्तिज्योतिषच्छन्दसां समाहारे । सर्वत्र विषयसप्तमी ॥ ४६ स्मृतिगुण्ट् श्रुतिगुण्डास्त्रगुणशब्दगुण्ट् सुवण् सदा । नक्षत्रगुण्ट् षाङ्गुण्यगुण्पटुर्कज्ञोत्र को न हि ॥ ६६ ॥ ६६. अत्र पुरे सदा स्मृतीर्धर्मशास्त्राणि कण्ठस्थत्वाद्गुणयति विपि स्मृतिगुण को नरो नास्ति किं तु सर्वोप्यस्ति । एवं सर्वैर्विशेषणैर्योजना कार्या । श्रुतीति । श्रुतिर्वेदः । शास्त्रेति शास्त्राणि । इदं लोकनिर्दिष्टस्मृत्यादिव्यतिरिक्तानि छन्दोलंकारनाटकादीनि । शब्देति शब्दशब्देन व्याकरणं नाममाला चोपलक्ष्यते । सुष्ठु वणति शब्दायते सुवण् । मधुरध्वनिरित्यर्थः । नक्षत्रेति नक्षत्रशब्देन नक्षत्रवाचकं ज्योतिःशास्त्रमुच्यते । तद्गणयति नक्षत्रगण | ज्योतिःशास्त्रविदित्यर्थः । षाड्गुण्येति । संधिविग्रहयानासनद्वैधीभावसंश्रयाख्या: षड्गुणाः स्वार्थे “भेषजादिभ्ये टण्” [ ७.२.१५५ ] इति णि पाहुण्यं षाड्गुण्यप्रतिपादकं नीतिशास्त्रम् । षण्णां दर्शनानां तर्काः षटुर्कास्तान् जानाति षटुर्कज्ञः || पिकवत्पञ्चमण्डु षडुरसु शिखण्डिवत् । क्रुङ्खिच मध्येममाङ्गु रज्येद्गायत्सु कोत्र न ॥ ६७ ॥ ६७. अत्र पुरे गायत्सु गायनेषु विषये को न रज्येत्को न रागं कुर्यात् । यतः किंभूतेषु । पिकवत्पञ्चमण्डु यथा पिका: कोकिला: पञ्चमस्वरं क्वणन्त्येवं पञ्चमं पञ्चमस्वरं कणत्सूच्चारयत्सु । तथा शिख १ सी चमं क २ सी ध्यमं प्रा. १ एफ् गुण्ट् को. २. बी शब्दे ३ एफ् वण्ट् म ४ डी 'तिषशा● . ५ सी डी भ्यष्टण्. ६ सी डी ति पा. ७ सी डी 'त्रमुच्यते प.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy