SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ५१२ घ्याश्रथमहाकाव्ये [मूलराजः] त्रिणो गुरवश्वोचुरिदं च लग्नं सर्वग्रहैः श्रेष्ठमिति ज्योतिषिकाश्वोचुरित्यर्थः । क सति । राज्ञि मूलराजे पृष्टवति। किमित्याह । ईदृक्षश्चामुण्डराजलक्षण इनो राज्यस्थापनेन सुष्माकं स्वामी युक्तो न वा । अन्यथापीदं व्याख्येयम् । तद्यथा । ईदृक्षो राज्याभिषेकाहवृषादिलग्नतृतीयस्थानगतत्वादिगुणोपेत इनो रविः कीदृक्षः स्यात्तथेग्लनमूर्तिस्थत्वोच्चैःस्थत्वादिगुणोपेतः शशी च कीदृक् स्यात् तथेदृशा लग्ननवमस्थानद्वितीयस्थानकादशस्थानदशमस्थानषष्ठस्थानस्थतोच्चैःस्थत्वादिगुणोपेता भौमादयश्च मङ्गलबुधगुरुशुक्रशनिराहवश्च कीदृशाः स्युरिति ।। ईदृक् । ईदृशाः । ईदृक्षः । कीदृक् । कीदृशाः। कीदृक्षः । अत्र "इदंकिमीत्की" [१५३] इतीकारकीकारौ ॥ विमृश्य । इत्यन्न "अनमः क्त्वो यप्" [१५४] इति यप् ॥ अनज इति किम् । अमूढा ॥ छत्रेण मौक्तिकवतंसपृषोदरेण जीमूतडम्बरवता श्यवतंसकेन । राज्येभ्यषिच्यत नृपेण तदा कुमारो वर्णाश्रमाभ्यवनवक्रयपुण्य योग्यः॥ १०६॥ १०६. तदा तस्मिञ् शुभलग्ने नृपेण कुमारो राज्येभ्यषिच्यत । यतो वर्णा ब्राह्मणादय आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतयो द्वन्द्वे तेषां यदभ्यवनं रक्षा तदेवं वक्रयो मूल्यं यस्य तत्तथा वर्णाश्रमाभ्यवनेनं क्रीतमित्यर्थः । यत्पुण्यं धर्मस्तस्य । यद्वा । वर्णाश्रमाभ्यवनस्य वक्रय इव भाटकतुल्यं यत्पुण्यं तस्य योग्यो वर्णाश्रमरक्षासमर्थ इत्यर्थः। किंभूतेन सता। मौक्तिकेषु वतंसा इव मौक्तिकवतंसाः प्रकृष्टमुक्ताफलानि तैः कृत्वाँ पृषन्ति जलबिन्दव इवोदरे यस्य तेन वक्षःस्थले १ए सी राज्यं स्था. २ डी नस्थितो. ३ ए सी क्षः। ईदृ. ४ बी ज्येभिषि'. ५ ए सी डी वक्र. ६ ए सी °न कीत. ७ ए सी त्वा वृष. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy