SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ [है० ३२.१५२.] षष्ठः सर्गः। त्यादृश्यनन्यादृशि तादृशस्तांस्त्यादृक्षबुद्धिः सचिवानिहार्थे । स त्यादृशाज्योतिषिकान् गुरूंश्च तादृक्षमन्त्रावृप आजुहाव ॥१०४॥ १०४. स नृपत्याशि' बृहत्तमत्वेन प्रसिद्धनन्याहशि सर्वोत्तमत्वेन निरुपम इहास्मिन्नर्थे पुत्रस्य राज्यन्यसनरूपे कार्य विषये सचिवानाजुहाव । किंभूतान् । तान् महाबुद्ध्यादिमैत्रिगुणैः सर्वत्र प्रसिद्धानत एव तादृशस्ताहकार्ये प्रष्टव्यान् । तथा त्यादृशांत्रिकालवेत्तृत्वादिदैवज्ञगुणैः सर्वत्र प्रसिद्धाञ् ज्योतिषिकाञ् ज्योतिर्विदो राज्याभिषेकशुभलमपृच्छार्थमाजुहाव । तथा तादृक्षा महाप्रभावत्वादिना प्रसिद्धा मत्रा येषां तान् गुरूश्च पुरोहितांश्च राज्याभिषेकमङ्गलकर्माद्यर्थमाजुहाव । यद्वा। तादृक्षमत्रांस्तदर्थानुसारिपर्यालोचान् गुरूंश्च पूज्यान कुलमहत्तरांश्चाजुहाव । यतः कीदृक् । त्याहक्षा पुत्रराज्याभिषेककरणविषया बुद्धिर्यस्य सः ॥ सहक् । सदृशम् । सदृक्षम् । अन्न "दृग्दृशक्षे" [१५१] इति समानस्य सः॥ अनन्यादशि । अनन्यादृशे । अन्यादृक्षम् । त्यादृशि । त्यादृशान् । त्यादृक्ष । तादृशः । तादृशानाम् । तादृक्ष । इत्यत्र “अन्य" [१५२] इत्यादिना आत् ॥ कीदृक्ष ईदृक्ष इनः शशीदृक्कीदृक्क भौमादय ईदृशाश्च । स्युः कीदृशाः पृष्टवतीति राज्ञि विमृश्य ते साध्ववदन्न वा ॥१०५॥ १०५. ते मन्त्रिज्योतिषिकगुरवो विमृश्य पर्यालोच्यामूवा मोहमगत्वा सम्यग्ज्ञात्वेत्यर्थः । साध्ववदन् । राज्या‍वयं कुमार इति म १ ए सी डी ताद. २ ए सी डी गुरुंश्च. ३ ए मूद्वा ॥ १ ए सीशि वहित्त. डी "शि मह. २ ए सी डी मन्त्रगु. ३ ए सी डी गुरुंच. ४ बी 'दृक्षेति. ५ ए सी डी दृक्षः । त्यादृ. ६ ए सी डी तं म. ७ ए सी मृश्यः प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy