________________
घ्याश्रयमहाकाव्ये
[मूलराजः] सोगात्पुरी श्रीदसमानधर्मालकासधर्मामसमानरूपः अन्वक्सरूपस्तनयोप्यमुष्य सब्रह्मचारी नलकूबरस्य ॥ १०२ ॥
१०२. असमानरूपो निरुपमरूपः स राजा श्रीदसमानधर्मा महकित्वादिना धनदतुल्यः सन्नलकासधर्मा सर्व_पेतत्वाद्धनदपुरीतुल्यां पुरीमणहिलपाटकमगात्तथान्वञ्चोनुचरा अपि सरूपा रूपनेपथ्यावस्थादिभिः सदृशा यस्य सोमुष्य मूलराजस्य तनयोपि पुरीमगात् । कीहक्सन् । नलकूबरस्य धनदपुत्रस्य सब्रह्मचारी शौर्यादिगुणैस्तुल्य इत्यर्थः । यथा श्रीदो नलकूबरान्वितोलकां यात्येवं मूलराजश्चामुण्डराजान्वितोणहिलपुरीमगादित्यर्थः ॥
सधर्माम् । सरूपः । अत्र “समानस्य' [१४९] इत्यादिना सः ॥ अन्ये तु धर्मादिषु नवसु वचनान्तेषु विकल्पमिच्छन्ति । सधर्माम् । समानधर्मा । सरूपः समानरूपः ॥
सब्रह्मचारी । इति “सब्रह्मचारी" [१५०] इत्यनेन निपात्यते ॥ बुद्ध्या सदृशं सदृशं प्रतापैः सुतं नृपः शक्रसदृग्यधित्सत् । स्वर्गादनन्यादृश आत्मराज्येन्यादृक्षमेतन हि तादृशानाम् ॥१०३॥
१०३. स्पष्टम् । किं तु । न्यधित्सत्स्थापयितुमैच्छत् । स्वर्गादनन्यादृशे महा स्वर्गतुल्ये । युक्तं चैतत् । हि यस्माद्धेतोरेतत् खानुरूपे पुत्रे स्वराज्यस्य निधित्सनं तादृशानां मूलराजतुल्यानां महाराजानां नान्यादृक्षं नासदृशमुचितमेवेत्यर्थः ॥
१ ए सी राजेन्या.
१ सी तुल्या पु. २ ए सी डी हिलपा. ३ सी सरू. ४ ए सी रीत्य. डी री । स. ५ ए सी स्वानरू. ६ डी नान्यास'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org