SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ [ है० ३.२.१४८.] षष्ठः सर्गः। ५०९ मूहूर्तवेदितास्योक्ता । अत एव जयहेतुमुहूर्ते रणकरणेनाद्यास्मिन्दिने सहापराहं साकल्येन्ते वाव्ययीभावः। क्रियाविशेषणं सकलमपराह्न यावदपराह्नमन्ते कृत्वा वेत्यर्थः । द्विषतो लाटस्य समूलघातं मूलेन पितृपितामहामात्याचाद्यपुरुषौधेन सह सेकलं साकल्येव्ययीभावः । निहत्रे तथा सहानुगाय परिवारसहिताय ॥ खस्ति स्वदेशाय गवे हलाय वत्साय साधाय यथा सदैव । भद्रं सहाद्याय गवे हलाय वत्साय देशाय तथास्त्वमुष्मै ॥१०॥ ___१०१. सशब्द आद्यो यस्य गव इत्यादिशब्दस्य तस्मै साद्याय गवे हलाय वत्साय च सगवे सहलाय सवत्सायेत्यर्थः । स्वदेशाय लाटेशद्विधेन यथा सदैव स्वस्ति क्षेमोस्तु तथा सहाद्याय गवे हलाय वत्साय सहगवे सहहलाय सहवत्साय चेत्यर्थः । अमुष्मै देशाय लाटदेशाय भद्रमस्तु । आशिषि पञ्चमी ॥ समूलघातम् । अत्र "अकाले" [१४६] इत्यादिना सः ॥ अकाल इति किम् । सहापराह्नम् ॥ सकाष्ठम् । इत्यत्र "ग्रन्थान्ते" [१४७] इति सः ॥ सहानुगाय भवते स्वस्ति भूयात् । इत्यत्र "नाशिषि" [१४८] इत्यादिना न सः ॥ अगोवत्सहल इति किम् । स्वस्ति स्वदेशाय सगवे सवत्साय सहलाय । भद्रमस्तु देशाय सहगवे सहवत्साय सहहलाय ॥ १ सी डी हान्याय. १ ए सी डी हं व. २ सी मूले. ३ ए सी महमहात्या . डी महमहामात्या. ४ ए सी यापु०. डी धादिपु. ५ ए सी डी सफलं. ६ ए सी आद्या य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy