________________
है. ३.२.१५५.] षष्ठः सर्गः।
५१३ ललमानजलबिन्दुस्वच्छमुक्ताकलापेन तथा श्रीयुक्तोवतंस आपीडो यस्य तेन । “शेषाद्वा" [७. ३. १७५] इति कच् । यद्वा । श्रियो राज्यलक्ष्म्याः शोभाहेतुत्वादवतंसक इव यस्तेनात एव जीवनस्य जलस्य मूतः पुटबन्धो जीमूत इन्द्रस्तस्येव डम्बरो लक्ष्म्याडम्बरो यस्यास्ति तेन । कीटक्सन् । छत्रेणोपलक्षितः । किंभूतेन । मौक्तिकानां वतंसैः शिरोमालाभिः कृत्वा पृषोदरेण जलबिन्दुवृन्दाध्यासितमध्येनेव तथा जीमूतडम्बरवता नीलत्वादिन्द्र पापानुकारखचितानेकवर्णमणित्वाच्छायाहेतुत्वाच्च मेघाडम्बरवतात ऎव यवतंसकेन राज्यलक्ष्म्याः शेखरतुल्येन । वसन्ततिलका छन्दः ॥
अथ प्राची गत्वा हृहिणतनयां श्रीस्थलपुरे वपुः खं हुत्वात सुपिहितपिनद्वापरयशाः । ययौ राजेः सूनुर्दिवमनपिनद्धापिहितधीग्रहीतुं स्वर्गादप्यवनविधिनावक्रयमिव ॥ १०७॥ १०७. अथ पुत्रस्य राज्याभिषेकानन्तरं विजितसर्वशत्रुत्वात्सुकपिहितं पट्याद्यावरणेनेवात्यन्तमाच्छादितं सुपिहितमप्यनिवारितप्रसरं कदाचित्कथमपि पिधानमतिक्रम्य प्रकटं स्यादित्याह । पिनद्धं च । छोहशृङ्खलथेव निगडितं चापरयशः शत्रुकीर्तिर्येन स राजे: सूनुर्मू
राजोवनविधिना प्रभूभूय रक्षाकरणेन स्वर्गादप्यवक्रय भाटकं गत होतुमिव दिवं स्वर्ग ययौ । किं कृत्वा। श्रीस्थलपुरे सिद्धपुरापर-गम्नि श्रीस्थलांख्ये नगरे पूर्वदिगभिमुखं प्रवहमानत्वात्प्राची द्रुहिण_नयां ब्रह्मपुत्री सरस्वती सर्वतीर्थोत्तमत्वेनात्मसाधनार्थं गत्वा तथाग्नौ
१ ए सी न् । छात्रे. २ ए सी ते । मौ. ३ ए सी डी एत श्य: सं.४ ए सी अत्र पु. ५ बी के गृही. ६ ए सी लास्थे न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org