________________
है.. १.१.१४०.] षष्ठः सर्गः। अवश्यगम्ये । अत्र “कृत्ये" [१३८] इत्यादिना मस्य लुक् ॥ सततम् संतत । सहित संहिते । इत्यत्र "सम' [१३९] इत्यादिना वा मस्य लुक् ॥
गन्तुमनसि । प्रणन्तुकामः । समनाः । सकामः । इत्यत्र "तुमच" [१४०] हत्यादिना मस्य लुक् ॥ सन्यान्तरे मांसपचन्य आशु मांस्पाकमौज्झन्मियमांसपाकाः । द्रष्टुं द्विषन्मांस्पचनप्रतापं समागतं दक्षिणतारतस्तम् ।। ९८॥
९८. सैन्यान्तरे कुमारसैन्यादन्यस्मिन्मूलराजसैन्ये वर्तमानामांसपचन्यो मांसपाचिकाः प्रियमांसपाका अपि । अपि यः । आशु मांस्पाकं मांसपचैनमौज्झन्नत्यजन् । किं कर्तुम् । दक्षिणतारतो दक्षिणस्या दिशो दक्षिणस्य देशस्य वा तीरात्समागतं तं कुमारं द्रष्टुम् । यतो द्विषतां मस्पिचनो मांसस्य संतापैनः प्रतापो यस्य तं शत्रुजयेनात्यद्भुतप्रतापमित्यर्थः । अथ च यो हि मांस्पचनप्रतापो यस्य प्रतापोपि मांस्पचनस्तं देशान्तरादागतं समानधर्मातिशयेनोत्पादितात्याश्चर्यत्वाद्रष्टुं प्रियमांसपाका अपि मांसपचन्यो मांस्पाकमाशूज्झन्तीत्युक्तिलेशः ॥ सहाजसो दक्षिणतीरराजद्रोः पातनेसौ सपिशाचवात्या । सौजाश्रुचुम्बे सरसादृष्टया वर्षात्समासान्नु नृपेण दृष्ट्वा ॥९९॥
९९. असौ कुमारो नृपेण चुचुम्बे । किं कृत्वा । सह रसेन सरसा दूर्वा तद्वदाी स्निग्धा या दृष्टिस्तया दृष्ट्वा । उत्प्रेक्ष्यते । समासाद्वर्षान्नु गम्ययपेक्षया पञ्चमी । मासाधिक संवत्सरमतिक्रम्येव । १ ए सी द्रोः पिताने.
१ए बी सी डी हितत्य. २ बी चमौ. ३ ए सी पनप्र. ४ ए सी माविश. ५ ए सी डी पेक्ष्यया, ६ ए सी मी । सामाधि'. ७ ए सी तिक्राम्ये'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org