________________
५०६
व्याश्रयमहाकाव्ये
[मूलराजः]
शेषस्फटा ईषत्कुत्सिता वोष्णाः संतप्ताः । यद्वा। ईषत्कुत्सितं वरुणं संतापो यासु ताः कुर्वन् । एवं कोष्णमित्यत्रापि समासः । तथा कदमिवदल्पेन कुत्सितेन वाग्मिनेवे क्रोडमुखमादिवराहदंष्ट्रां कदुष्णं कुर्वस्तथा कमठेन्द्रपृष्ठं काग्निकोष्णमल्पेन कुत्सितेन वाग्निनेव कोष्णं, कुर्वन् ॥
कोष्णम् कवोष्णाः । इत्यत्र "काकवौ वोणे" [१३७] इति वा काकवौ ॥ पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम् ॥ अन्यस्त्वनावपीच्छति । काग्नि । कवाग्निना । कदग्निवत् ॥ अवश्यगम्ये सहितोर्जि राज्ञि श्रीसंहिते गन्तुमनस्यैथागात् । प्रणन्तुकामः सततं सकामः स संततीजाः समनाः कुमारः॥९॥
९७. अथ नृपाणामेवमुक्तौ स कुमार आगात् । की। संतत निचितमोजो बलं यस्य सोत एव सततं सदा संगतः कामेन सम्यकामो यस्य वा स सकामः शत्रुजयेन पूर्णमनोरथोत एव च संगतो मनसा सम्यग्मनो यस्य वा स समनाः समाहितचित्तोत एव च राज्ञि मूलराजपादान्तिके प्रणन्तुकामः । शत्रुजयाद्यवदातकर्मणि हि कृते प्रीतिविशेषोत्पादनाय पितरं पुत्रः प्रणमति । किंभूते राज्ञि । अवश्यगम्ये पूज्यत्वावश्यमभिगम्ये । तथा संधीयते स्म सहिता संबद्धोबलं येन तस्मिन् । तथा श्रीसंहिते विजयादिलक्ष्म्या परीते । तथा गन्तुमनसि स्वपुत्रशौर्यावलोकनाय रणं यातुकामे ॥
१ ए सी स्यगाथात् ।.
१ ए सी सितो वो . २ ए यास्तुताः. ३ ए सी डी व क्रोड. ४ ए सी डी °न् ॥ कवो. ५ सी 'ग्निना ।. ६ ए सी क् । सत. ७ डी ततमाचि. ८ ए सी तं मिवित. ९सी शत्रुज'. १० बी स्म संहि. ११ ए सी दोर्गलं. १२ बी श्रीसिंहते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org