SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ [ है०३.२.१३६ ] षष्ठः सर्गः। ५०५ त्याह । कुत्सितः पन्थाः कापथोक्षत्राचारेण युद्धं कुत्सितोल्पो वा पुरुषः कुपुरुषस्तस्य भावः कर्म वा कौपुरुष्यं शत्रो रणे पृष्ठदानादि निन्द्यं पुरुषकर्म कुत्सितमक्षमिन्द्रियं कोक्षं कुत्सितमक्ष्यस्येति काक्षो वा तस्य भावः काक्ष्यं भयविह्वलेन्द्रियता । द्वन्द्वे । तानि । ततस्तस्माद्धेतोः कापुरुषतरः कुत्सितादल्पाद्वा पुरुषादन्यः पुरुषसिंहोसौ लाटोभूत् । कीदृक् । कुत्सितानि त्रीणि कापथकौपुरुष्यकाक्ष्याणि येषां ते किंत्रयस्तान्महाशूरप्रियत्वाहिषन्ति यास्तासामप्सरसा देवीनी नाल्पः पतिरकापतिरतुच्छाशयो भर्ता ॥ कत्रीणि । इत्यत्र “कत्रि" [१३३] इति कोः किमो वा कन्निपात्यः ॥ किमो नेच्छन्त्येके । किंत्रि ॥ काक्ष्याणि । कापथ । इत्यत्र “काक्षपथोः" [१३४] इति कादेशः ॥ कापुरुष कौपुरुष्य । इत्यत्र “पुरुषे वा" [१३५] इति वा कादेशः ॥ अनीषदर्थे विकल्पोयम् । ईपदर्थे तु परत्वादुत्तरेण नित्यमेव । तत्रापि विकल्प एवेति कश्चित् । कापुरुष । कौपुरुष्य ॥ अकापतिः । अन्न “अल्पे" [१३६] इति कादेशः॥ कवाग्निनेवाहिफणाः कवोष्णाः कदग्निवत्कोडमुखं कदुष्णम् । स काग्निकोष्णं कमठेन्द्रपृष्ठं कुर्वन्वलैः पश्य कुमार एति ॥९६॥ ९६. हे राजन्मेश्य स पूर्वव्यावर्णितः कुमार एति । कीदृक्सन् । बलैः सैन्यैः कृत्वा कवाग्निनेवाल्पेन कुत्सितेन वा वहिनेवाहिफणाः १ बी रुषस्त. २ सी काकु कु. ३ ए सी ना माल्पः. ४ सी तिका. डी तिः का. ५ ए सी कोः कथो वा. ६ सी कापक्ष. ७बी रुषः । कौ. ८ ए सी रेति. ९ ए सी पस्य स. १० ए सी ति । हे राजन्पस्य स पूर्वव्यावर्णित । की. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy