SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ [है० ३.२.१२८.] षष्ठः सर्गः। ५०३ बाहू एवातिस्थूलत्वान्नगौ गिरी यस्य हे दुर्बाहुनग त्वमजीवसि कुत्सितं प्राणिषि तस्मात्तिरश्चीनं तिर्यग्मा गा मृत्युभयेन रथं तिर्यग्मा स्म भ्रमयेत्यर्थः । इत्युदित्वोक्त्वा कुमारं मुष्टया निजघान । कीडक्सन् । अगतुङ्ग उत्प्लवनेनाभ्रंलिहत्वागिरिवदुन्नतोत एव न भ्राजते स्वकालादन्यत्र नभ्राड । नुरत्रापि योज्यः । मेघतुल्यः । तथा नैषां खमस्तीति नखा नखरास्त एवायुधानि यस्य स नखायुधो नु सिंहतुल्यश्च । नखायुध इति नामोपन्यासेनैव नखानामायुधत्वान्यथानुपपत्त्या सिंहः कृतमोसूचि । अतश्चागतुङ्गत्वादिधमैाटस्य तुल्यत्वान्नखायुध उपमानमिति ॥ सर्वाग्भिः । तथ्यङ् । विष्वद्यग् । देवद्यग् । इत्यत्र "सर्वादि" [१२२] इत्यादिना डदिः॥ सध्यङ् । सम्यग् । इत्यत्र “सह" [१२३] इत्यादिना सध्रिसम्यादेशौ ॥ तिर्यक् । इत्यत्र "तिरसस्तियति" [१२४] इति तिरिः ॥ अतीति किम् । तिरश्चीनम् ॥ अधीर । इत्यत्र "नजत्" [१२५] इति नञ् अस्यात् ॥ अजीवस्यवीर । इत्यत्र "त्यादौ क्षेपे" [१२६] इति नात् ॥ नग अग। इत्यत्र “नगोप्राणिनि वा" [१२७] इति वा नजोन्निपात्यः ॥ नख । नभ्राह । इत्यत्र “नखादयः" [१२८] इत्यदभावो निपात्यः ॥ कथं न नखमस्त्यस्य नखो न न भ्राजते किं तु भाजत एवेति नभ्राट् । पृषोदरादिस्वाद् [३.२.१५५] एकस्य नो लोपे भविष्यति ॥ १ ए सी बाहन. २ ए सी मजब. ३ बी लिहित्वा. ४ ए सी "रिवुदन्न. ५ ए सी डी सिंहकृ. ६ बी क्रमः सूचितः । अ. ७ ए सी डी न... अं. ८ ए गोप्रीणि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy