SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ [ है. ३.२.११७.] षष्ठः सर्गः। ५०१ त्रभृत्यादावाशा जयमनोरथोन्यदाशा तथान्यदास्थितत्वमन्यस्मिन्मित्रादौ शत्रुविजयार्थमाश्रयणम् । द्वन्द्वे । तैः किम् । न किंचिदित्यर्थ इति॥ द्वीप । अन्तरीप । प्रतीप । इत्यत्र "यन्तर' [१०९] इत्यादिनाप ईम् ॥ भनवर्णादिति किम् । परीप ॥ अनूप । इत्यत्र "अनोर्देशे उप” [११०] इत्यैप उप् ॥ अप्रतीपंमन्य । अबलंमन्य ॥ अरुस् । अरंतुद । इत्यत्र “खिति" [१११] इत्यादिना मोन्तो यथासंभवं ह्रस्वश्च ॥ अनव्ययेति किम् । दोषामन्यम् ॥ अरुःशब्दोपादानादनव्ययस्य व्यञ्जनान्तस्य मो न स्यात् । गीमन्यकैः ॥ सत्यंकारः । अगदंकार । अस्तुंकारः । इत्यत्र "सत्यागद” [११२] इत्यादिना मोन्तः ॥ लोकंपृणम् । मध्यंदिन । अनभ्याशमित्यम् । इत्येते "लोकंपृण" [११३] इत्यादिना निपात्याः ॥ अन्ये तु प्रीणातेर्णिगन्तस्याचि इस्वस्वं निपात्य लोकप्रिणमित्युदाहरन्ति ॥ कश्चित्वकृतहस्वत्वमेव मन्यते । लोकंत्रीणः ॥ भ्राष्ट्रमिन्धः । अग्निमिन्धः । इत्यत्र “भ्राष्ट्र" [११४] इत्यादिना मोन्तः ॥ मत्स्यंगिलः । तैमिगिलगिल्य । इत्यत्र "अगिलाद्" [११५] इत्यादिना मोन्तः ॥ अगिलादिति किम् । तैमिगिलगिल्य ॥ भद्रकरणौ । उष्णंकरणाय । इत्यत्र "भद्रोष्णात्करणे" [११६] इति मोन्तः॥ रात्रिंचर रात्रिचर । इत्यत्र "न वाखिद्" [११७] इत्यादिना मोन्तो वा। खिद्वर्जनं किम् । रात्रिमन्यम् ॥ केचित्तथैकरे । तैर्थकर । इत्यत्रापि विकल्पमिच्छन्ति । तदर्थं न वाखित्कृदन्त इति रात्रेरिति च योगो विभजनीयः ॥ १ ए सी डी राप् । अ. २ ए त्यप् उ°. ३ ए सी गन इ. ४ ए सी भ्यासमि'. ५ ए सी मिधः । अ. ६ ए सी मिन्द्रः । ३. ७ ए सी गिल्यः ।. ८ एसी रात्रिंच०. ९ बी मोन्तो खि०. १० ए सी रे। तीर्थ'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy