SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ । है० ३.२.१०९.] षष्ठः सर्गः। ४९९ गिलस्य गिलो गिलगिलस्तिमीनां गिलगिलस्तिमिगिलं गिलति वा तिमिंगिलगिलस्तस्य भावस्तैर्मिगिलगिल्यं महत्तमतिमिनिगलनं तेन चात्र रणस्याब्धित्वेन रूप्यमाणत्वाद्भटनिगलनशक्तमहाभटनिगलनमाक्षिप्यते । रणाब्धौ तैमिंगिलगिल्यं भजतो यौ तौ । तथा रात्रिचरारिरात्रिंचरराजावप्युक्तविशेषणोपेतौ मिथ उष्णंकरणायाभूताम् । यावप्यन्धितमिगिलगिल्यभाजौ तिमिगिलगिलौ महामत्स्यौ स्यातां तावपि मिथ उष्णंकरणाय भवतः ॥ तैर्थकरे तैर्थकरान्तरे वा कथानकेप्यश्रुतपूर्वयुद्धे । भूधेनुभव्यावृषराज रात्रिमन्यं दिनं चक्रतुरायुधैस्तौ ॥ ८९॥ ८९. हे धेनुश्चासौ भव्या च धेनुभव्या भूरेव रत्नपयोदोहहेतुत्वाद्धेनुभव्या तत्र वृषराज वल्लभत्वादृषभश्रेष्ठ तौ कुमारलाटावायुधैः कृत्वा दिनं रात्रिमन्यं चक्रतुः । क । अश्रुतपूर्वयुद्धभूतपूर्वत्वेनाश्रुतपूर्व ययुद्धं तस्मिन्निरुपमे युद्धे । काश्रुतपूर्वमित्याह । कथानकेपि । आस्तां सांप्रतमित्येपेरर्थः । किंभूते कथानके । तैर्थकरे । तीर्थंकरो भगवानहस्तदुपलक्षितः कालोप्युपचारात्तीर्थंकरस्तत्र भवे विद्यमानतीर्थकरकालभवे भरतबाहुबलिकथादौ। तैर्थकरान्तरे वा । तीर्थकरान्तरालकालभवे वा रामायणादिकथायाम् । कचित् 'अश्रुतपूर्वबुद्धे' इति पाठस्तदा तैर्थंकरे तैर्थकरान्तरे वा कथानकेपि सर्वोत्तमत्वेन न श्रुतपूर्वा बुद्धियस्य तस्य राज्ञः संबोधनम् ॥ १ सी रात्रि. १ बी निगिल'. २ ए सी हाप्यम'. ३ ए सी मिव उ. ४ ए सी त्वेमाश्रु. ५ डी 'त्यर्थः ।. ६ ए सी स्तलुप° ७ सी तीर्थंक. ८ ए सी मायिणा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy