________________
४९८
व्याश्रयमहाकाव्ये
.
[मूलराजः]
सन्विति स्वभटानां नष्टप्रनष्टप्रहतत्वं स्वभुजबलावलेपेनाङ्गीकुर्वन्नित्यर्थः। कीदृशम् । लोकंपृणमपि कान्ततादिगुणैर्जगदाह्लादकमपि । अपिविरोधे । अनभ्योशमित्यमनभ्यांशं दूरमित्यं गन्तव्यं यस्मात्तम् । अनभ्याशेनेयं दूरेण प्राप्यमिति वा । तदातिरौद्रत्वाद्दूरात्परिहर्तव्यमित्यर्थः ॥ तमात्मलोकंप्रिणमात्मलोकंप्रीणः कुमारोपि रुचाग्निमिन्धः । मत्स्यंगिलो मत्स्यमिवारिधानौघभ्राष्ट्रमिन्धस्तरसाभ्यधावत् ।।८७॥
८७. कुमारोप्यात्मलोकप्रिणं स्वप्रजाह्लादकं तं लाटं तरसा वेगे. नाभ्यधावत्संमुखं धावितः । कीहक्सन् । रुचा तेजसाग्निमिन्धोग्निरिवेन्धो दीप्यमानोत एवारय एवं धाना उपचाराद्भर्जनार्था यवास्ते. षामोधे भ्राष्ट्रमिन्धे प्रज्वलयति भ्राष्ट्रमिन्धो भ्राष्ट्राजीवी यथा भ्रौष्ट्राजीवी धाना अग्निना पचत्येवमरीस्तेजसा पचन्नत एवात्मलोकंप्रीणः । यथा मत्स्यंगिलो मत्स्य गिलनेच्छयाभिधावति ॥ रणाब्धितैमिंगिलगिल्यभाजौ स्वपक्षभद्रकरणावभूताम् । अन्योन्यमुष्णंकरणाय रात्रिचरारिरात्रिंचरराड्डलौ तौ ॥ ८८ ॥
८८. स्वपक्षभद्रंकरणौ स्वकीयवर्गस्य रक्षया क्षेमंकरौ तौ कुमारला. टावन्योन्यमुष्णकरणायोष्णस्य संतापस्योत्पादनायाभूताम् । किंभूती सन्तौ । रात्रिचरारिरात्रिंचरराड्डलौ रामरावणतुल्यशक्ती । अत एव
१ सी डी स्यरिवा. २ ए सी डी 'भ्राष्टमि'. ३ ए सी करुणा. ४ ए सी करुणा.
१ बी ति सुभ. २ सी ववेना. ३ ए लेना. ४ ए सी डी दिर्गुणै. ५ बी भ्यासमि. ६ ए सी डी भ्यासि दू'. बी भ्यासंदू. ७ ए सी डी 'त्तम् । अभ्या". ८ बी व प्रधा. ९ ए सी डी परा. १० ए सी यथास्ते. ११ डी भ्राष्ट्रा. १२ ए सी डी भ्राष्टाजी. १३ ए सी करुणा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org