________________
४९२
व्याश्रयमहाकाव्ये
[ मूलराजः]
श्छिन्ननासिकत्वात्स्वल्पनासिकाः सन्तो नासिक्यं नासिकास्थानं वर्ण वक्तुमुञ्चारयितुं नालं न समर्था बभूवुः । के चन च शीर्षण्यघातैः शिरसि भवैः प्रहारैः कृत्वा लुलन्तो विसंस्थुलाः शिरस्याः शिरसि भवाः केशा येषां ते तथा सन्तः शीर्षण्यपाशान्केशकलापान्नियन्तुं संवरीतुं नेशा न समर्था बभूवुः । यद्वा । शिरसा तुल्यानि शाखादित्वाचे [७.१.११४] शीर्षण्यानि शिरस्त्राणानि तेषु घातैः कृत्वा लुलैच्छिरस्या भ्रंसमानशिरस्त्राणा: सन्तः शीर्षण्यपाशा शिरस्त्राणबन्धान्नियन्तुं नेशा बभूवुः ॥
हृल्लास । हृल्लेख । हार्द । हृय । इत्यत्र "हृदयस्य' [९४] इत्यादिना हृदादेशः ॥ हृदयशब्दसमानार्थेन हृच्छब्देनैव सिद्धे हृदादेशविधानं लासादिषु हृदयशब्दप्रयोगनिवृत्यर्थम् । अन्यत्र तूभयं प्रयुज्यते ॥ हेदामः हृदयाम ॥ ___ पदाजयः । पदातीन् । पदगैः । पदोपहत । इत्यत्र “पदः” [९५] इत्या. दिनी पदः ॥
पद्धिम । पद्धति । पत्काषिणाम् । पद्य । इत्यत्र “हिमहति" [१६] इत्यादिना पत् ॥ अन्ये तु गोपहतयोरपीच्छन्ति । पैगाः । पादुपहत्य ॥
पच्छे ऋचः प्रगायन्तः। अत्र "चश्शसि” [९७] इति पत् ॥ पच्छब्द पादशब्दाः । पन्निष्क पादनिष्काः । पदोषि पादघोषैः । पन्मिश्रम् पादमिश्रम् । अत्र “शब्दनिष्क” [९८] इत्यादिना [वा] पत् ॥
नस्तः। नःक्षुद्रकाः । अत्र "नस्" [९९] इत्यादिना नस् ॥
१ ए सी रस्या शि°. २ ए सी यन्तु सं. ३ बी लच्छर.४ बी भ्रंशमा. ५ डी हृद. ६ ए सी दाम हृ.७ एबीसीडी यामः । प०.८. डीना पादशब्दस्य प. ९ ए सी डी 'द्धिमः । ५. १० ए सी पद्गा पा. ११ बी डी पच्छः क. १२ ए सी च्छ रुच:. १३ ए बी डी ऋचः इश. १४ ए सी डी च्छब्दः पा. १५ ए सी द्धोषिः पा. १६ सी स्तः। नक्षु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org