________________
[ है० ३.२.९४.] षष्ठः सर्गः ।
४९१ ऋता: पीडिता यथा पादुपहत्यभाजः स्युस्तथा शरैः कृत्वा पादयोरुपहता: पदुपहतास्तेषां भावः पादुपहत्यं तद्भजन्ति ये ते। तथा पादव्यथा. न्विता अत एवापपादशब्दाः शनैर्गमनेन पादोत्थघोषरहिताः । अत एव च विप्रवेषा मन्दगतीनस्मान्मा कोपि शीघ्रमन्वागत्य परिज्ञाय च वधीदिति स्वाकारापह्नवाय ब्राह्मणवेषधारिणः । अत एव च ऋचो मन्त्रभेदान्पच्छः प्रगायन्तै ऋचा पादं पादं वेदध्वनिभेदेनोच्चारयन्तः ।। पद्धोषि पन्मिश्रमपादमिश्रं प्रोज्झ्याश्वमुष्टैरपपादघोषैः । त्यक्तात्मपन्निष्ककलत्रपादनिष्काश्च नस्तोसुषु जग्मुरन्ये ॥७७॥
७७. अन्ये भटा नस्तः आद्यादित्वात्तस् [७.२.४४.]। नासिकायां सत्स्वसुषु । मरणमहाभयेन नासिकागतेषु प्राणेष्वित्यर्थः । उष्ट्रैर्जग्मुनष्टाः । यतोपपादघोषैरपगतांहिशब्दैः । उष्ट्राणां हि गच्छतां पादघोषो न स्यात् । किंभूताः सन्तः । त्यक्ता मरणभयेनैव व्युत्सृष्टा आत्मनः स्वस्य पनिष्का: पादयोनिष्का वीरकैटकाद्यलंकारीकृतानि स्वर्णानि कलत्राणां पादनिष्काश्च पादयोपुराद्यलंकारीकृतानि स्वर्णानि च यैस्ते तथा । किं कृत्वा जग्मुः । पन्भिों बहीयेस्त्वेन मिथः पादसंकरात्पादेषु मिश्रं संकीर्णं तथापादमिश्रं सुलक्षणत्वान्न पादेषु स्वकीयांहिषु मिश्रं मिलितमुपलक्षणत्वादन्यैरप्यपलक्षणै रहितमाश्वमश्वौधं प्रोझ्य त्यक्त्वा । यत: पद्धोषि पादशब्दान्वितम् । आश्वस्य हि यातः पादघोष: स्यात्तेन च नश्यन्तो लक्ष्यन्ते । नाक्षुद्रकाः के चन नस्यघातैर्वक्तुं न नासिक्यमलं बभूवुः। शीर्षण्यघातैश्च लुलच्छिरस्याः शीर्षण्यपाशाननियन्तुमीशाः॥७८॥
७८. के चन भटा नस्यघातैर्नासिकायो भवैः प्रहारैनःक्षुद्रका. __ १ ए नक्षुःद्र. सी नक्षुद्र.
१ ए सी च रुचो . २ ए सी पां. ३ सी ककका . ४ डी ° वही . ५ ए सी यस्तेन. ६ ए सी यांशिषु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org