________________
४९०
ध्याश्रयमहाकाव्ये
[ मूलराजः]
हल्लेख उत्कण्ठा तं जुषन्ते सेवन्ते ये ते । किमूचुरित्याह । हे द्विडुदयाम दुःखत्वाच्छत्रुहृदयेषु रोगतुल्य ते तव तुक्पुत्रो द्विषां हृदामो हृदयरोगतुल्यो नोस्मान्पदातीन्विना दिष्ट्या क्षेमेण जयी वर्तते । योपि हृदामः क्षयव्याधिः सोपि द्विषां द्वेषं कुर्वतां नृणां जयी द्वेषेण प्रवर्यमानत्वादतिपरिभावुकः स्यादित्युक्तिलेशः ॥ पदाजयस्ते पदगैः पदोपहतक्षमैर्यावदमी न यामः । तावच दृष्टस्त्रसतामरीणां पत्काषिणां पद्धतिपद्यपांशुः ॥७५ ॥
७५. हे राजंस्ते तवामी अस्मल्लक्षणाः पदाजयः पत्तयः पादाभ्यामुपहता क्षमा भूयस्तै: पदगैः पत्तिभिः सह यावन्न यामस्तावच्चारीणां पद्धतेर्गिस्य पद्यः पादोत्थो यः पांशुः स दृष्टः । कीदृशां सताम् । असतां कुमाराद्विभ्यतामत एव पत्काषिणां पादावभीक्ष्णं मार्गेण सह कषतां नश्यतामित्यर्थः ॥ पद्गाः शरैः पादुपहत्यभाजोयुः पद्धिमार्ता इव विभवेषाः । पच्छः प्रगायन्त ऋचोपपादर्शब्दाः सपच्छन्दरथान्विनैके ॥७६ ॥ ____७६. एके भटाः सपच्छब्दरथान् गमनहेतुत्वात्पादा इव पादा. श्चक्राणि तेषां शब्दश्चीत्कृतिः सह तेन ये ते ये रथास्तान्विना । सपच्छब्दत्वेन भयहेतुत्वाद्रथान्मुक्त्वेत्यर्थः । पद्गाः पादचारिणोयुगताः । किंभूताः सन्तः । पद्धिमार्ता इव पादयोर्हिममवश्याय: पद्धिमं तेन
१ बी पद्गा श°. २ ए डी द्विमः . सी द्विमता इ°. ३ ए सी तप. ४ ए सी शब्दा स.
१ बी °खकत्वा० २ ए सी रोमतु. ३ बी द्विषान् ह. ४ ए सी डी दामोक्षव्या. ५ बी त्वादिति. ६ ए सी 'स्ते तावा. ७ ए सी य: पदा. ८ ए सी डी भीक्ष्णमा. ९ ए सी मुक्तेत्य. १० डी द्धिमतर्ता . ११ ए सी श्याय ५०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org