________________
४८७
[ है० ३.२.८६.] षष्ठः सर्गः। दक्षिणापथे । क्वचिद्विकल्पः। अन्धन्तमोन्धातमसम् अन्धतमसि ॥ क्वचिद्विषयभेदेन । अधीकण्ठः । अयमाधिक्ये । अन्यत्राधिकण्ठ ॥ क्वचिदनुत्तरपदेपि विकल्पः। मारक नरकः ॥ काशशब्दे च धैजन्ते विकल्पः । नीकाश निकाशः ॥ अजन्ते तूत्तरविधिः ॥ वीकाशमेते रिपुनीत्तपृष्ठा मुनीवहं पीलवहं च यान्तु । श्वाकूर्दकैः श्वापदमन्दधीभिः श्वापुच्छरैः श्वमुखैः किमेभिः ७० ___७०. विकाशते विकाश्यते वा अचि वीकाशं प्रकटं यथा स्यादेवं रिपूणां नीत्तं नष्टत्वान्निदातुमारब्धं पृष्ठं यैस्त एते नृपा मुनीवहं पीलुवहं च पुरं यान्तु मुनीनां पीलूनां च वहं धारकमियन्वर्थनौम्नैव मुनीवहपीलुवहपुरयोररण्यप्रायत्वं सूचितम् । ततश्च रिपुदत्तपृष्ठत्वेन 'मद्देशेन्यराजदेशे च स्थानाभावादरण्यतुल्ये मुनीवहे पीलुवहे च मुनिवृत्ाँ पीलुवृत्त्या चैते वर्तन्तामित्यर्थः । यत एभिनॅपैः किं न किंचिदित्यर्थः । यतः शुन इव कूर्दो निष्फलं वल्गनं येषां तैस्तथा श्वापदं व्याघ्रादि तद्वन्मन्दा मूढा धीवुद्धिर्येषां तैस्तथा श्वापुच्छेवैः कुटिला. शयैस्तथा श्वमुखैभषणवत्रैः॥ षोडद्वृषाभाः श्वपदापवित्राः पोढा बलेनापि युता न शक्ताः । षड्डा तथैकादश षोडशार्थ वाराञ् श्वपुच्छं नमितं न चर्जु ॥७१॥
७१. श्वपदापवित्रा रणे भग्नत्वात्कुक्कुरोह्रिवदस्पृश्या एते नृपा रि
१ सी हं च. २ ए सी वकै श्व'. ३ ए सी डी मुखै कि°. ४ ए सी थ रोजान्. ५ ए सी चर्जुः ।.
१ ए बी सी रकः न. डी रकः । का. २ ए सी घडन्ते. ३ बी त्यर्थः । ना. ४ ए सी डी नान्नैव. ५ ए सी द्देश्येन्य. ६ डी त्या चै. ७ ए सी चैतै व. ८बी ततामि'. ९ ए सी भिनृपैः. १० ए सी तै तथा. ११ बी धीबुद्धि. १२ ए सी तै तथा. १३ ए सीवकैः कु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org