SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४८८ व्याश्रयमहाकाव्ये [ मूलराजः ] I 3 पुविजये न शक्ताः किंभूताः । षोडषाभा अपि । अपिरत्रापि योज्यः । षड्डून्ता यस्य स षोडन् युवेत्यर्थः । यो वृषो वृषभो बलयौवनादिना तत्समा अपि । तथा षोढा मौलॅबल १ भृतकबल २ श्रेणिबल ३ अरिवल ४ सुहृद्बल ५ आटविकबल ६ भेदैः षडिधेन बलेन सैन्येन युता अपि । युक्तं चैतद्यतः षड्डा षड्भिः प्रकारैस्तथैकादश वारानथ तथा षोडश वria aपुच्छं नमितमृजूकृतं न चर्जु न च सरलं स्यात्तथास्वभावत्वात् ॥ वीकाशम् । अत्र "नामिनः काशे" [८७ ] इति दीर्घः ॥ नी । इत्यन्त्र " दस्ति" [८] इति दीर्घः ॥ मुनीवहम् । अत्र " अपील्वादेर्वहे " [ ८९ ] इति दीर्घः ॥ अपील्वादेरिति किम् | पीलुवम् ॥ श्वाकूर्दकैः । अत्र “शुनः” [९०] इति दीर्घः ॥ बहुलाधिकारात्कचिद्विकल्पः । श्वापुच्छ श्वपुच्छम् ॥ क्वचिद्विषयान्तरे । व्याघ्रादौ श्वापद | शुनः पदे श्वपद || क्वचिन्न स्यात् श्वमुखैः ॥ एकादश । पोडश । पोडत् । षोढा । षड्ढा । इत्येते "एकादश " [ ९१] इत्यादिना निपात्याः ॥ द्वित्रा अथ द्वादश वा त्रयोदशाष्टादशाथ द्विशतं व्यशीत्या । लाटेश्वराः सन्तु स तांस्त्रिचत्वारिंशद्गजोग्र्जेतुमलं कुमारः ॥ ७२ ॥ ७२. द्वित्रा द्वौ वा त्रयो वाथाथ वा द्वादश त्रयोदश वाथाथ वाष्टादशाथ वा व्यशीत्या सह द्विशतं लाटेश्वराः सन्तु तथापि स कुमारस्ता - · १ सी शक्ता षो. २ ए भूता षो. ३ ए सी डी र्थः । वृ ४ ए सी डी. ५ ए सी न्येतयु. ६ ए सी 'पर्यात. ७ एसी शुनप ८ ए सी षड्डा । ३. डी षड्डा । इ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy