________________
४८६
व्याश्रयमहाकाव्ये
[ मूलराजः ]
लाटो दक्षिणः पन्था दक्षिणापथस्तस्मिन्वर्तमानोधिकाः कण्ठा यस्य सोधीकण्ठो दशकन्धर इवाज्ञायि रावण इवाजय्यो ज्ञात इत्यर्थः । तमात्राद्भयमेष एवैषामिह लोकेपि निरुपमो नरकः संपन्न इति परलोकभाविनरकचिन्तया किमिति तात्पर्यार्थः ॥
*
विश्वामित्रः । अत्र " ऋषौ " [ ७९] इत्यादिना दीर्घः ॥
वैश्वानरः । अत्र "नरे" [ ८० ] इति दीर्घः ॥
विश्वावसु । विश्वाराड् । इत्यत्र " वसुराटो: " [१] इति दीर्घः ॥ रोडिति विकृतिनिर्देशादिह न स्यात् । विश्वराज (जः) ॥
दन्तावलान् । इत्यत्र “वलचि" [८२] इत्यादिना दीर्घः ॥ अपित्रादेरिति किम् । पैतृवल्यम् । मातृवल्यम् ॥
सप्तचितीकवत् । इत्यत्र “चितेः कचि” [८३] इति दीर्घः ॥
दात्राकणैः । अत्र "स्वामिचिह्नस्य " [ ८४ ] इत्यादिना दीर्घः ॥ विष्टादिवर्जनं किम् । विष्टकर्णैः । अष्टकर्ण । पञ्चकर्ण । भिन्नकणैः । छिन्नकणैः । छिद्र कर्ण । स्रुवकर्ण । स्वस्तिककर्णकैः ॥
I
[नहू |?] निरुपानहः ॥ वृत् । नीवृतः ॥ वृष् । प्रावृषः ॥ व्यध् । मर्मावित् ॥ रुच् । नीरुग्॥ सह्। अनृतीर्षैहः ॥ तन् । परीततः । अत्र “गतिकारकस्य'" [८५] इत्यादिना दीर्घः ॥ केचित्तु रुजाविच्छन्ति न रुचौ । तन्मते नीरुगिति रूपं रुजेर्निरुगिति तु रुचेरेवं च रुजिरुच्योर्मतभेदेन विकल्पः सिद्धः ॥
नीक्केद । इत्यत्र " घजि" [८६ ] इत्यादिना दीर्घः ॥ क्वचिन्न स्यात् । प्रहारैः ॥ क्वचिद्विकल्पः । प्रतीहारम् प्रतिहार ॥ क्वचिद्विषयभेदेन । प्रासाद गृह । प्रसादोनुग्रहः ॥ बहुलवचनादनुपसर्गस्याप्यधन्यपि च स्यात् ।
१ बी 'णः पथा द° २ सी मित्र । अ. ३ ए सी राज्ञिरिति ४ सीम् । स. ५ एसी । भि° ६ ए सी 'षहेः । त ७ ए सी डी 'गृहः । प्र ८ ए सी 'स्याद्यप्य'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org