________________
[है० ३.२.७८.]
.. षष्ठः सर्गः।
प्रहाराकरणेन रुधिराद्यालेपाभावान्नितरां दीप्तानि निरजि निर्भङ्गानि यान्यस्त्राणि तानि भजन्ति ये ते । तथा नोक्छेदवन्तो रणत्वरितपलायनोत्थश्रमातिरेकात्स्खेदवन्तस्तथा प्रहारै रहिताः ॥
स नः प्रसादोपतिहाररोधं प्रासादकक्षासु यतां मुधैषाम् । यनारकान्धीतमसं प्रवेष्टुमपप्रतीहारमिदं प्रनष्टम् ॥ ६८॥
६८. अतिमान्यत्वान्नास्ति प्रतिहारैत्रिभी रोधो निवारणं यत्र तद्यथा स्यादेवं प्रासादकक्षासु सोधप्रकोष्ठेषु यतां गच्छतामेषां नृपाणां स महत्त्वेन प्रसिद्धो नोस्माकं प्रसादो देशदानाद्यनुग्रहो मुधा निष्फलम् । यद्यस्माद्धेतोरेषामेतत्कर्तृकमिदं प्रत्यक्षं प्रनष्टं पलायनमपप्रतीहारमपगतकाष्ठिकं यथा स्यादेवं नारकान्धातमसं नरकस्य महान्धकारं प्रवेष्टुमभूत् । रणे हि नष्टा नरकं यान्तीति स्मृतिः ॥
एपोनिकाशो नरकोथ वान्धतमस्यनीकाशभयं पराद्यत् । एतैरधीकण्ठ इव द्विषन्दक्षिणापथेज्ञाय्यधिकण्ठजीवैः ॥ ६९ ॥
६९. अथ वेति राज्ञां नरकान्तरोपदर्शनगर्भ पक्षान्तरे । अथ वा यत्पराच्छनोरन्धतमसं महामूढतात्रास्तीत्यन्धतमसि । अनीकाशभयमतिप्रकर्षप्राप्तत्वेन निरुपमं भैयम् । एष एवानिकाशो निरुपमो नरकः । प्रस्तुतार्थेन योजनायैषां राज्ञां भङ्ग्या भयमाह । एतैर्नृपैरधिकण्ठा महाभयेन कण्ठमधिगता जीवाः प्राणा येषां तैस्तथा सद्भिद्विषन्
१ ए सी यतामु. २ ए सी धाएत'. ३ ए सी डी नत्थम् ॥. १ए सी डी निभङ्गा. २ डी यन. ३ ए सी नोश्र०. ४ बी के प्रासा. ५ ए सी नाथुनु. ६ ए सी डी नत्थं प. ७ सी देव ना. ८ ए सी यातीति. ९ ए सी वेदिति. १० सी गर्भप. ११ ए सी य ए. १२ ए सी तैनृपै०. १३ ए सी द्भिद्विष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org