________________
४७६
व्याश्रयमहाकाव्ये
[मूलराजः ]
सा ज्यायसिप्राक्तरपुर्यभान्तीरूपैणनेत्राभिरभान्तिरूपा । नद्या नदन्तीतमया नदन्तितमप्रजाभिश्च नदत्तमाभूत् ॥५१॥
५१. सा लाटेशसत्का ज्यायसिप्राक्तरपुरी ज्यायसितरपुर्यत्यन्तं प्रशस्या वृद्धा वा नगरी भृगुकच्छाख्या प्रशस्ता भान्ती भौन्तिरूपा न तथाभान्तिरूपाशोभमानाभूत् । काभिः कृत्वा । अभान्तीरूप भयव्याकुलत्वेनाशोभमाना या एणनेत्रास्ताभिः । तथा नदत्तमाव्यक्तशब्दमैय्यभूत् । काभिः कृत्वा । नदन्तीतमया भयत्रस्तलोकप्रवेशेनाव्यक्तं शब्दायमानया नद्यातिसमीपस्थया नर्मदाख्यनद्या नदन्तितमप्रजाभिचायन्तं कोलाहलं कुर्वाणैर्लोकैश्च ॥ भाद्रूपताभूत्पुरि यान्तिकल्पा यात्कल्पलक्ष्म्यां स्फुरतीबुवायाम् । स्फुरहुवाभूज्जनता प्रयान्तीकल्पस्फुरन्तिब्रुव जीवया च ॥ ५२ ॥
५२. पुरि भाद्रूपता । प्रशस्यशोभेत्यर्थः । यान्तिकल्पा नश्यत्प्रायाभूत् । कीदृश्यां सत्याम् । यात्कल्पलक्ष्म्यां वास्तव्यजननाशान्नश्यत्प्रायसमृद्धावत एव स्फुरती विलसन्ती या ब्रुवा कुत्सिता तस्याम् । निन्दितशोभायामित्यर्थः । तथा जनता जनौघश्च स्फुरढुवा निन्दितस्फुरणाभूत् । कया कृत्वा । प्रयान्तीकल्पा भयेन नश्यन्तीप्रायात एव स्फुरन्ती ब्रुवा कुत्सितं निश्वसन्ती या जीवा प्राणा । जीव: प्राणेषु केदार इति वचनात्रिलिङ्गः । तया ||
१०
१ बी 'रूपेण ..
१ ए सी न्तं अश २ ए सी ती रू. ३ बी भातिरू .. ४ ए सी डी. ५ ए सी 'वेन शो.. ६ ए सी मज्यमू. ७ बी "ब्दामा', ८ सी 'त्यन्तको '. ९ एसी र साहू १० ए सी निश्चिस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org