SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ [है० ३.२.६१.] षष्ठः सर्गः। ४७५ सर्वबालाः । यथा । तथा । तत्र । इत्यत्र "सर्वादयोस्यादौ” [६१] इति पुंवत् ॥ अस्यादाविति किम् । सर्वासु ॥ . प्रियं मृगक्षीरमभून्न ते प्राक्पेयं मृगीक्षीरमतः परेण। .. पचत्तरेत्थं मृगशावमुक्त्वा नष्टा मृगीशावविलोचनाभिः॥४९॥ ४९. पचत्तरा प्रकृष्टा पाचिका राजादिसूपकारी मृगीशावविलोचनाभिर्मगीबालवद्भयचटुलविशालाक्षीभिः स्त्रीभिः सह नष्टा । किं कृत्वा । मृगशावं हेरिणीपोतमुक्त्वा । कथमित्याह । हे मृगशाव मृगीपोतक प्राक्पूर्वं ते तव सुखादुदुग्धाद्यास्वादनेन मृगक्षीरं हरिणीदुग्धं निरास्वादत्वेन प्रियं ना दतः परेणातोनन्तरं मृगीक्षीरं हरिणीदुग्धं पेयमित्थम् । राजादिसूपकार्यों हि मांसपाकस्यातिसुखादुतार्थ मृगशावादीन दुग्धादिभव्याहारैः पोषयन्ति ॥ लाव्यः पचन्तीतरया पचन्तितरा इवोष्णाशुरुचाभितप्ताः । ज्यायस्तरोरोजतटी कटीं ज्यायसीतरां त्रासजुषो निनिन्दुः॥॥५०॥ ५०. लाट्यो लाटदेशस्त्रियो ज्यायस्तरोरोजतटीमुपचिततरस्तनाभोगं ज्यायसीतरां कटीं च गतिविघ्नत्वान्निनिन्दुः । कीÉश्य: सत्यः । पचन्तितरा इव । यथा प्रकृष्टपाचिका: सदाग्निसांनिध्यादभितप्ताः स्युरेवं पंचन्तीतरयातिशयेन संतापिकयोष्णांशुरुचाभितप्ताः । तथा त्रासजुषोरिचक्रागमैनेन भीताश्च ॥ . १ ए सी चन्तरा. २ ए सी शुरचातित. १ ए सी स्त्रीभि स. २ ए सी हरणी'. ३ ए सी डी पोतं मु. ४ ए सी ततक. ५ सी प्रियमाभूतः । प०.६ ए भूतः। पडी भूत् । प. ७ ए सी °रेणतो. ८ बीदृशाः स. ९ ए सी सत्य प. १० ए सी मिसाध्या". ११ ए सी पचीत. १२ सी मते भीनाश्च. १३ ए ने भी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy