SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४७४ व्याश्रय महाकाव्ये [ मूलराजः ] पत्रीणां भावं विहाय पलायकत्वं पलायिकानां भावं जगृहु: । ततस्तासां परस्त्रीणाममती महतीभूता महद्भूता या भीस्तयैक्यभाजां मिथो भिन्नानां सतीनां न म्लेच्छीत्वमन्त्यजातित्वं नो वा कठीताज्ञायि ॥ या गोमतीभूय चिराय पद्वीभूताः प्रजास्ता अपटूभवन्त्यः । तथाद्रवंस्तत्रं यथा निपेतुः सर्वासु रथ्यास्वपि सर्ववालाः ॥ ४८ ॥ ४८. याः प्रजा गोमतीभूय गावः सन्त्यासां ता गोमत्योगोमत्यो गोमत्यो भूत्वोपलक्षणत्वान्महद्धिकीभूयेत्यर्थः । चिराय चिरकालं पट्टीभूता महर्द्धिकत्वाद्याश्चिरं सौजस्का आसन्नित्यर्थः । ताः प्रज ऋद्धिविगमाशङ्कयापटूभवेन्त्यः सत्यस्तत्र पुर्यां तथा तया प्रकृत्याद्रवन्परचक्रागमनभयेन नष्टा यथा यया प्रकृत्या सर्वास्वपि रध्यासु सर्वबालाः सर्वासां प्रजानां बालका बालिकाश्च निपेतुरत्यौत्सुक्ययानेन मिथः संमर्देन च कटीभ्यो निपतिताः ॥ वजातीय। मद्रकजातीय | स्नायकजातीय । भग्नदेशीया । इत्यत्र " रिति" [ ५८ ] इति पुंवत् ॥ याकुलत्वापटुते । अत्र "स्वते गुण:" [ ५९ ] इति पुंवत् ॥ गुण इति किम् । म्लेच्छीत्वम् | कठीता ॥ केचित्तु जातिसंज्ञावर्जितस्य विशेषणमात्रस्य पुंवद्भावभिच्छन्ति । पलायकत्वम् । पाचकताम् ॥ महद्भूतभिया । इत्यत्र " च्वौ कचित्" [६० ] इति पुंवत् ॥ कचिहणागोमतीभूयेत्यादौ न स्यादेव ॥ पट्टीभूताः । अपटूभवन्त्यः । इत्यादौ विकल्पः ॥ १ ए सी डी 'त्र सथा. १ बी 'लायका. २ सी या प्र. 'जरुद्धवि. ५ ए सी 'वन्त्य स . तयः । म Jain Education International ३ ए सी 'जसका आ. ४ ए सी डी ६ ए सी डी कृष्टा स. ७ ए डी For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy