________________
[है० ३.२.५७.] षष्ठः सर्गः ।
४७३ "नाप्रियादौ" [५३] इत्युक्तम् । तत्रापि भव्यप्रियाम् । "तद्धितीककोपान्यपूरणाख्याः" [५४] इत्युक्तम् । तत्रापि रौचनिकोत्पटीम् । द्रावकवीक्षणीयाम् । एकादशमूर्तिः । दत्तभार्या । "तद्धितः स्वरवृद्धिहेतुररक्तविकारे" [५५] इत्युक्तम् । तत्रापि वैदिशनारी । “स्वाङ्गाद कीर्जातिश्वामानिनि" [५६] इत्युक्तम् । तत्रापि दीर्घकेशपौरी। कठस्त्री । दारददत्तभार्या । अत्र "पुंवस्कर्मधारये" [५७] इति पुंवत् ॥ नद्या वसत्स्नायकमद्रकाद्यजातीयनारीभिरभिद्रुताभिः । पुरी द्विषोभूदथ भग्नदेशीया व्याकुलत्वापटुते प्रपन्ना ॥ ४६॥
४६. अथ द्विषो लाटस्य पुरी भग्नदेशीयोपप्लुतप्रायाभूद्यतो व्याकुलत्वापटुते भीतिं किंकर्तव्यतामूढतां च प्रपन्नाश्रिता । काभिहेंतुभिः । नद्यां श्वभ्रवत्यां वसत्स्नायकमद्रकाद्यजातीयनारीभिर्वसत्स्नायकमद्रकेति शब्दा आद्या यस्य स तथा जातीयेति शब्दो यासां तास्तथा या नार्यस्ताभिर्वसजातीयस्नायकजातीयमद्रकजातीयनारीभिवसन्त्यः स्नायिका मद्रिकाचं प्रकार आसां ताभिर्वा स्तव्याभिर्मुनिपत्नीभिः स्नायिकाभिमंद्रिकाभिर्मद्रदेशोद्भवाभिश्च नारीभिः । कीदृशीभिः । अभिद्रुताभिः । परसैन्यदर्शनोत्थातिभयेन पुराभिमुखं पलायिताभिः । नश्यदायान्तीदृष्ट्वेत्यर्थः ॥ पलायकत्वं जगृहुर्विहाय परस्त्रियः पाचकतामकाण्डे । म्लेच्छीत्वमज्ञायि न नो कठीता तासां महद्भूतभियैक्यभानाम्
॥४७॥ ४७. परस्त्रियः शत्रूणां नार्यो भयभीतत्वादकाण्डेप्रस्तावे पाचकतां १ सी पाठक'. १ ए सी नाप्रिया. २ ए सी ताकाको'. ३ ए सी ङ्गानीर्जा. ४ ए सी डी प्रपप. बी प्रतिप०. ५ ए सी भिविसर्जाती'. ६ ए सी डी सत्यः स्ना०. ७ बी 'श्च आ. ८ बीमद्रका. सी मद्रदे. ९बी अतिद्रु. १० ए सी °लायता . डी लायन्तीभिः । ११ ए सी डी दृष्टेत्य'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org