________________
[है० ३.२.६२.]
षष्ठः सर्गः।
४७७
नैतच्चलेच्चेलि दिनं चलन्तीचेल्या भवोच्चरचलन्तिचेली। याद्गोत्रया यास्यनयाथ यान्तीगोत्रे नु गा मा तदयान्तिगोत्राम्
॥५३॥ समं लपन्तीमतया लपन्तिमता स्म मा भूरलपन्मते त्वम् । काञ्च्या रसन्तीहतयारसन्तिहते कृथा मास्म रसद्धतां द्याम् ॥५४॥ गार्गिब्रुवे वात्सितरे कुमारिकल्पौत्सिरूपे कठिचेलि यात । प्रतीक्ष्यते चण्डितमा किमाङ्गिहतेयमात्रेयिमतौर्विगोत्रा ॥ ५५ ॥ पङ्गुब्रुवा भोगवतिब्रुवेयं पत्रुवा गौरिमतिब्रुवासौ । अस्त्रीतराश्च स्त्रितरास्तथोचुः सविड्वरायामिति लाटपुर्याम् ॥५६॥
५३-५६. सविवरायां सोपद्रवायां लाटपुर्यामस्त्रीतराश्चाप्रकृष्टाः स्त्रियश्च तथा स्त्रितराः प्रकृष्टस्त्रियश्चेतीदमूचुः । तदेवाह । हे चलच्चेलि मन्दगतित्वान्निन्द्यगमने चलन्तीचेल्या मन्दगतिकाया नैतदिनं भयेन नश्यमानत्वाच्छीघ्रगतेरेवायमवसर इत्यर्थः । तस्मादुच्चैरतिशयेनाचलन्तिचेली शीघ्रगमना भव । अथ यदि हे यान्तीगोत्रे निन्द्यगमनेनया प्रत्यक्षया याद्गोत्रया निन्द्ययानया सह यासि तत्तदायान्तिगोत्रामनिन्धगमनाम् । मामित्यर्थः । मानुयासीमत्पृष्ठे मा स्म लग इत्यर्थः । तथा हेलपन्मतेवाचाले लपन्तीमतया वाचाटया संमंसह त्वं लपन्तिमता वाचाटा मा स्म भूः। भयेन निभृतं नश्यमानत्वेन शब्दस्यानवसरात् । तथा रसन्तीहतया शब्दस्यानवसरेण निन्द्यशब्दया काच्या कृत्वा हे रसन्तिहते
१ ए सी नैतिच्च. २ ए सी लच्चैलि° ३ ए सी भवैच्चैः. ४ बी या प्रया. ५ ए सी द्धता था. ६ ए सी तौविगो . ७ ए सी डी पङ्गु. ८ ए सी थोचु स.
१ ए सी °या पत्य. २ ए सी डी निन्द्यासन'. ३ डी सह ल'. ४ बी °सरणे नि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org