SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ [है०३.२.३४.] षष्ठः सर्गः। ४६३ स्तोष्पतेरपीन्द्रस्यापि दिवस्पतित्वमैन्द्रं पदं हि स्फुटं हरेतापनेतुं शक्तः संभाव्यते । कासु सतीषु । होतुःसुतहोतुरन्तेवास्युद्यताशी:ध्वपि ऋत्विक्पुत्रऋत्विक्शिष्याणां सप्रभावेष्वप्याशीर्वादेषु । यतो दीर्घहस्तः प्रलम्बशुण्डः । अलक्षणं ह्येतत् । योपि दीर्घहस्तः प्रलम्बपाणिः स्यात्स दिवस्पतित्वतुल्यमुन्नतं फलादि वस्तु हरतीत्युक्तिलेशः ॥ ईदृग्गजो भगृहेस्थिदन्तो हन्यात्पितुःशिष्यपितुस्तनूजान् । पितुःस्वसारं स्वसपत्यपत्यं स्वसुःपतिं नाम पितृष्वमृणाम् ॥३१॥ ___३१. ईदृग्गजो भर्तृगृहे वर्तमानो हन्यादुच्छेत्तुं शक्तः संभाव्यते । कान् । पितुःशिष्यपितुस्तनूजाञ् जनकान्तेवासिनो जनकपुत्रांश्च । तथा पितुःस्वसारं जनकभगिनीं च तथा स्वमृत्यपत्यं भगिनीभर्तृसन्ततिं च तथा स्वसुःपति भगिनीभर्तारं च तथा पितृष्वसृणां जनकभगिनीनां नामापि । अपिरत्र ज्ञेयः । यतोस्थिवनिःश्रीको दन्तौ यस्य सः । सर्वसंबन्धिजनक्षयहेतुः । अपलक्षणं ह्येतत् ॥ ताम्यन्ति होतुःस्वमृयुक्तहोतृवनात्मजा याज्यगृहागते हि । मातापितृभ्यां सममेव होतापोतार ईदृग्गज ओतुनेत्रे ॥ ३२ ॥ ३२. ईदृग्गज ईदृशे द्विपे याज्यस्य यजमानस्य राजादेहमायाते सति होतुःस्वसृभित्विग्भगिनीभिर्युक्ता होतृस्वस्रात्मजा ऋत्विम् - गिनीपुत्रा येषां ते होतापोतारो होतारः पोतारश्च ऋत्विग्विशेषा मातापितृभ्यां सममेव सहैव हि स्फुटं ताम्यन्ति याज्यस्य संपत्क्षयेण दक्षिणादिलाभाभावात्खिद्यन्ते । यत ओतुनेत्रे मार्जारपिङ्गलाक्षे । संपत्क्षयहेतु_दमलक्षणम् ॥ १ ए सी लक्ष्यणं. २ ए पाणिं स्या'. सी पाणि स्या. ३ ए सी शक्तसं. ४ सी पत्यं. ५ बी भित्वि. ६ ए सी डी स्वश्रात्म. ७ ए सी ग्भटिनी'. “ ए बी सी डी हि स्फटं. ९ डी संक्षेपेण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy