________________
४६२
व्याश्रयमहाकाव्ये
[चामुण्डराजः]
न्दस्य मृगस्य मिश्रस्य वा हस्तिनोयं पुत्र इत्यर्थं बुभुत्सुर्जिज्ञासुरत एव तं द्विरदं दृशा दिशन्कीदग्गजोयमिति कुमारं ज्ञापयन् । ततोमुष्य प्रख्यातस्य मूलराजस्य पितुरपत्यं नडाद्यायनणि [६.१.५३.] आमुष्यायणः सोपि कुमारोपि प्राञ्जलिः सन्नत्वैवं वक्ष्यमाणमूचे ॥
आमुष्यपुत्रिकाम् । आमुष्यायणः । अत्र "अदसः" [३३] इत्यादिना षष्ठयलुप् ॥
तदेवाह । यथा शुनःपूर्वकशेपपुच्छलाङ्गुलमुख्यैर्गजलक्ष्म बुद्ध्वा । वाचस्पतीयं जगदे ममादेवानांपियनॆषगजस्तथायः ॥ २९ ॥
२९. अदेवानांप्रियैः पण्डितैः शुन इति पूर्वं येषां ते शुन:पूर्वका अभिधानाभिधेययोरभेदोपचारादभिधेयविशेषणत्वे ये शेपपुच्छलाङ्गलास्ते। तथा शुनः शेपमिव शेपमस्येत्यादिविग्रहे शुनःशेपशुनःपुच्छशुनोलाङ्गलाख्या मुनयस्तदाद्यैर्मुनिभिर्वाचस्पतीयं बृहस्पतेरिदं गजलक्ष्म गजलक्षणप्रतिपादकं शास्त्रं बुद्धा गुरूपदेशेन ज्ञात्वा यथा ममाग्रतो जगदे व्याख्यातं तथा ज्ञायत एष गजो नार्यो न पूज्यो वाचस्पतीयगजलक्ष्मशास्त्रोक्तलक्षणानुसारेण न प्रशस्य इत्यर्थः ॥ __ अथास्यानयतामेवाष्टवृत्त्याह । ईदृग्दिवोदासनुतस्य वास्तोष्पतेरपीभो हि दिवस्पतित्वम् । हरेत होतुःसुतहोतुरन्तेवास्युद्यताशीःप्वपि दीर्घहस्तः ॥ ३० ॥
३०. ईदृगिभो दिवोदासनुतस्य दिवोर्दीसैर्देवविशेषैः स्तुतस्य वा१ सी दि ति. २ बी स्युद्यता. १ ए सी प्याणः ।। २ सी शुनपू. ३ ए डी त्वे ते ये ४ ए सी स्पदेते. ५ बी म ल. सी म नज. ६ ए सी दासिदेवविशैः स्तु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org