________________
४६४
व्याश्रयमहाकाव्ये [चामुण्डराजः ] स्वसादुहित्रोः क्षपकं पितापुत्रयोश्च नामुं शुकपिच्छपुच्छम् । जिघृक्षतो दक्षिणयापि होतापुत्रावतीन्द्रावरुणः किमु त्वम् ॥३३॥
३३. उ हे राजन्नमुं गंजं होतापुत्रावृत्विक्तत्पुत्रश्च याचकावपि दक्षिणयापि धर्मेणापीत्यर्थः । न जिघृक्षतः । यतः स्वसादुहितो: क्षपकं पितापुत्रयोश्च क्षपकं विनाशकम् । एतदपि कुत इत्याह । यतः शुकपिच्छपुच्छम् । नीलपुच्छो हि गजः कुलक्षयाय स्यात् । किं पुनरतीन्द्रावरुणो महर्द्धिकत्वादिगुणैरिन्द्रं वरुणं चातिक्रान्तस्त्वं जिघृक्षसि । नैवेत्यर्थः ॥ वाय्वग्निभः कर्मभिराग्निसौमाग्नावैष्णवैः कृष्णनखे गजेस्मिन् । मुधेभशान्ति रचयेविजोग्नीषोमोपमोग्नीवरुणोपमो वा ॥ ३४ ॥
३४. द्विजः पुरोहितः कृष्णनखेस्मिन् गजे विषये कर्मभिः शान्तिक्रियाभिः कृत्वेभशान्तिम् । इभशब्देनेभस्थकृष्णनखत्वकुलक्षणेजनिता राज्यराष्ट्रादेरुपद्रवा उपचारादुच्यन्ते । तेषां शान्तिमुपशमकर्म मुधा निरर्थकमेव रचयेत् । संभावनेत्र सप्तमी। नोपशमयितुं शक्तः संभाव्यत इत्यर्थः । कीदृशोपि। तपोमन्त्रादिप्रभावोत्थदिव्यशक्त्या वाय्वग्निभो वायुदेवताग्निदेवतातुल्यमहिमाग्नीषोमोपमोग्नीवरुणोपमो वा। वाय्वग्नी अग्नीषोमावग्नीवरुणौ च द्वौ द्वौ सहचरौ देवभेदाः। किंभूतैः कर्मभिः । आग्निसौमाग्नावैष्णवैरग्नीषोमावग्नाविष्णू च सहचरौ देवभेदौ देवते येषां तैः ॥
१ए सीणवै कृ.
१ए सी गजा हो . २ बी त्रोः पि. ३ ए बी सी नैवेत्य'. ४ सी द्विज पु. ५ सी °णनि. ६ ए सी शक्त सं?. ७ ए सी ग्मितु. ८ बी नीवार'. ९ ए सी हरौ. १० बी मिसोमा. ११ ए सी डी वते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org