________________
[ है० १.३.९.] प्रथमः सर्गः। ___ ५३. अत्र पुरे पुमांसो गाव इव पुंगवा नरश्रेष्ठाः पुंस्तमैः श्रेष्ठपुरुषैः सह सौहृदं मैत्री कुर्वते । किंभूतैः । पुंस्त्वपुंख्यातैः । पुंस्त्वेन पुरुषकारेण शौर्येण पुंसु ख्यातैः प्रसिद्धैः। अत एव पुंस्प्रष्टैः पुरुषेष्वग्रेसरैः। पुंगवाँ अपि किंभूताः । पुंष्ठकुराः । नृणां स्वामिनः अत एव सपुंस्थट्टाः पुरुषौघावृताः । एतेनात्रत्यजना गुणिनो गुणानुरागिणश्चेत्युक्तम् ॥
पुंशूरा अत्र पुंष्टक्काः परपुंस्थुङ्कतासहाः ।
अपुंक्षुद्राः प्रकुर्वन्ति सेवां चौलुक्यभूभुजाम् ॥५४॥ ५४. अत्र पुरे पुंष्टकाः पुमांसः पौरुषोपेता ये टक्काः क्षत्रियजातिभेदास्ते चौलुक्यभूभुजां मूलराजादीनां सेवां प्रकुर्वन्ति । कीदृशाः । पुं. शूराः पुंसु पौरुषोपेतेषु भटेषु शूराः । अत एव परे शत्रवो ये पुमांसस्तेषां यत् थुट्तं न्यक्काराय मुखविकृतिपूर्व शब्दविशेषस्तस्याप्यसहा अक्षमाः । तथा क्षुद्राः क्लिष्टचेतस्का द्रोहाद्यभिप्रायेण । पुमांसश्च ते क्षुद्राश्च पुंक्षुद्रा न तथा'क्षुद्राः ॥
पुंस्कामाः । पुँस्कोकिल । अपुंस्खेरैः । पुस्खल । अपुंश्चल्यः । पुंश्चौराः । अपुंश्छन्नैः । पुश्छेकैः । पुंष्टिटिभ । पुँष्टक्काः। पुंष्टकाः । पुँष्ठक्कुराः । पुंस्तमैः । पुंस्त्व। पुंस्थट्टाः। पुंस्थुङ्कत । पुंस्पशुः । पुस्प्रष्टैः ।पुंस्फल्गुः। पुंस्फेरुः । इत्यत्र 'पुमोशिष्टि" [९] इत्यादिना रोन्तादेशोनुस्वारानुनासिकौ च पूर्वस्य ॥ अशिटीति किम् । पुंशूराः । अघोष इति किम्। पुंगवाः । अधुदपर इत्येव । अपुंक्षुद्राः । अख्यागीति किम् । पुंख्यातैः ॥
१ डी स्थुत्कृता . एफू स्थूत्कृता. १ एफ गावः पुं०. २ ए सी डी एफ पुस्सु ख्या'. ३ सी डी वापि. ४ सी डी गुणा. ५ ए सी डी एफ पुस्सु पौ. ६ डी एफ थूत्कृतं. ७ ए छक्काः ।. ८ एफू स्त्वसपुं. ९ सी एफ स्थुत्कृत, डी स्थूत्कृतम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org