________________
४०
व्याश्रयमहाकाव्ये
[ मूलराजः ]
मीन किं हरिचन्द्रो नृपाता किं पुरूरवाः । पुष्यन् किमु मांधतेत्यत्र तर्फेत भूपतिः ॥ ५५ ॥
५५. अत्र पुरे भूपतिर्नृन्प्रजाः प्रीणन् मधुरवचनादिदानेन सुखयन् सन् किमयं हरिश्चन्द्रस्तृतीयचक्री । हरिश्चन्द्रेण हि प्रजा अत्यन्तं प्रीणिताः । इत्येवं प्रकारेणे तर्येत संभाव्यते । जनैरिति संबन्ध: । अप्रेप्येवं योजना कार्यो । पाता चौरादिभ्यो रक्षन् पुरूरवाश्चतुर्थचक्री । पुष्यन् इत्यत्र पुषिरन्तर्भूतणिगर्थः सकर्मकः । दानसन्मानादिना पोषयनित्यर्थः । मांधाता आद्यचक्री ॥
प्रीणन् नृपाता । इत्यत्र " नॄनः पेषु वा " [१०] इति रोन्तादेशो वानुस्वारानुनासिकौ च पूर्वस्य ॥ पक्षे । नृपुष्यन् ॥
कस्कान् रथान्भटान् काँस्कानश्वान् कान् कानिभानिह । न पश्यति सहस्राक्षो दृक्सहस्रं कृतार्थयन् ।। ५६ ।।
५६. सहस्राक्ष इन्द्रो दृक्सहस्रं लोचनसहस्रं कृतार्थयन् कृतार्थमाचक्षाणः सन्निह पुरे कांस्कान् रथान् कांस्कान् भटान् पत्तीनं कानश्वान् कानिभांश्च न पश्यति किं तु सर्वानपि गजादीन् । सर्वोत्कृष्टगुणैनिरुपमत्वेनादृष्टपूर्वदर्शनात्स्वमक्षिसहस्रं सफलं मन्यमानः सहस्राक्षः सतर्ष पश्यतीत्यर्थः । एतेनात्र चतुरङ्गबलसंपद्विशेष उक्तः ॥
कांस्कान् । काँस्कान् । इत्यत्र " द्विः कानः कानि सः " [११] इति सोन्तादेशोनुस्वारानुनासिकौ च पूर्वस्य ॥ द्विरिति किम् । कान्कान् ॥
१ एफ् न् किं मां.
तं प्रणताः २ एकूण वितते सं. ३ एफ् र्या एताश्चौरा • ५ एफ् न् कांस्कान ६ एफ् 'पि राजा.
७ एफ् सहर्ष
१ एफू ४ डी ' .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org