SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३८ व्याश्रयमहाकाव्ये [ मूलराज: ] तास्तथा पुंस्कामा अप्यपुंश्चल्यः । पुमांसं कामयन्ते पुंस्कामाः । पुमांसं चलयन्ति पुंश्चल्यः कुलटाः । न तथापुंश्चल्यः सत्यः । अपिर्विरोधे । पुंमात्रकामनविवक्षया विरोधः । अविरोधस्तु स्वपतेरेव कामनविवक्षया । अत एवापुंश्चल्यः । किंभूतैर्भर्तृभिः । पुंश्छेकैः पुरुषेषु विदग्धैः । तथापुंस्खेदैः । खेटा अधमाः । पुंमांसो ये खेटो: पुंस्खेटा: । न तथापुंस्खेटास्तैः । परदारसेवादिनिन्द्यकर्मरहितैरित्यर्थः । अतएवापुंश्छन्नैः न पुंसान्येन पुरुघेणाच्छादितैः । विद्वत्तया सदाचारतयाँ च सर्वपुरुषेषु मुख्यैरित्यर्थः । भवति ह्युत्तमगुणानां दंपतीनां संबन्धः शोभातिशयहेतुः ॥ न पुंष्टट्टिभपुयौरा न च पुंस्खल पुंष्ठकाः । न पुंस्फल्गुर्न पुंस्फेरुर्नपुंस्पशुरिह कचित् ॥ ५२ ॥ ५२. टिट्टिभा उत्पादशयनाः पक्षिभेदाः । पुमांसष्टिट्टिभा इवोद्धतत्वात् पुंष्टिट्टिभाः । तथा पुमांसश्च ते चौराश्च पुंश्चौराः । द्वन्द्वे । पुंष्टिट्टि - भपुंश्चौराः । इह पुरे क्वचित्कस्मिन्नपि स्थाने न सन्तीति संटङ्कः । एवं सर्वत्रास्तिक्रिया नञा सह योज्या । खला दुर्जनाः । पुमांसश्च ते खलाचै पुंखलाः । एवं पुंष्ट: पुंछलकाः । ततो द्वन्द्वः । तथा सु फल्गुः पुमर्थविकलत्वेन निष्फलः पुंस्फल्गुः । तथा पुमान् फेरुरिव भीरुत्वात् शुगाल इव पुंस्फेरुः । तथा पुमान् पशुरिव मूर्खत्वात् पुंस्पशुः ॥ पुंस्प्रष्ठैः पुंस्तमैः पुंस्त्वपुंख्यातैः सह सौहृदम् । पुंष्ठ कुराः सपुंस्थट्टाः पुंगवा अत्र कुर्वते ।। ५३ ।। १ बी सी डी है: पुंस्त्वपुंख्यातैः पुंस्तमैः स १ ए पुंमान्काम. बी पुंसोत्र. २ ए बीटा पुं. सी 'टान ३ बी या स.. ४ एफ् त्रापि कि ं . ५ सी डी व ए. ६ सी कास्ततो. ७ ए सी डी एफू पुंस्सुफ ८ डी एफ् निः फल:. Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy