________________
[है० १.३.८.]
प्रथमः सर्गः ।
कार्मुकं धनुर्यस्य स निरन्तरं धनुरास्फालयन्नित्यर्थः । एतेन धनुर्विद्याकौशलोक्तिः । तथा पराञ् शत्रूश्छ्यन् विनाशयन् । एतेन बलिष्ठत्वोक्तिः।
अङ्गान्यस्मिँस्थुष्ठाभकुचो भाति वधूजनः । प्रशाश्चरन् त्सरुकोपि कोपि नैवात्र दारुणः ॥५०॥ ५०. अस्मिन्पुरे ठाभौ ठकारववृत्तौ कुचौ स्तनौ यस्य स वधूजनः कुलाङ्गनालोकोङ्गानि स्तनादीनवयवांस्थुडन्नुत्तरीयादिना संवृण्वन् सन् भाति । कुलाङ्गनानां हि सर्वाङ्गोपाङ्गसंगोपनं शोभातिशयहेतुः । तात्र त्सरौ खड्गादिमुष्टौ कुशल: “कुशले” [६. ३. ९५.] इति के त्सरुकोपि खड्गादिशस्त्रभृद्भटलोकोपि । आस्तां वणिगादिरित्यपेरर्थः । प्रशानुपशान्तः संश्चरन्नस्ति । विचरतीत्यर्थः । अतश्चात्र कोपि नैव दारुणो रौद्रः । एतेनात्र राजाज्ञाया अतिसौष्ठवमुक्तम् ॥
व्रजेश्वारु । प्राणाँश्चरन् । वहंश्छायाम् । पराँश्छयन् । कुर्वष्टल । चरँष्टकारि । अमिष्ठकः । स्थुष्ठाभ । गायंस्तारम् । अस्मिंस्त्रायकः । जानस्थूत्क । अस्सिँस्थुडन् । इत्यत्र “नोप्रशान" [ 4 ] इत्यादिना शषसा अनुस्वारानुनासिकौ च पूर्वस्य ॥ अप्रशान इति किम् । प्रशाञ्चरन् । अधुट्पर इति किम् । चरन् त्सरुकः ॥
पुंस्कामा अप्यपुंश्चल्य इह (स्कोकिलस्वनाः ।
अपुंश्छन्नरपुंस्खेटैः पुंश्छेकै न्ति भर्तृभिः ॥५१॥ ५१. इह पुरे स्त्रियो भर्तृभिः सह भान्ति । कीदृश्यः । कोकिल: परपुष्टः । पुमांश्चासौ कोकिलश्च पुंस्कोकिलस्तस्येव स्वनः स्वरो यासां
१ एफ °न् भा०. २ एफ °था त्स. ३ सी डी खगश. ४ डी त्यर्थः ।। ५ ए एफ शान्नुप. ६ सी डी संचर. ७ सी डी वत्वमु. ८ सी डी शानो ई. एफ शाने इ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org