________________
[ है० ३.२.१३. ]
षष्ठः सर्गः ।
४५३
किं खेचरो गोषुचरो नु विष्णुः शल्योथवा मद्रचरो हृदिस्पृक् । सोतताभस्मनिमीढकर्मा मध्ये गुरुनन्तगुरूंचे धिन्वन् ॥ १४ ॥
9
१४. स कुमारोतत । कथमित्याह । किमसौ खेचरो विद्याधरो देवो वा । नु किं वा गोपालावस्थायां गोषु चरति गोषुचरो विष्णुरथवा मद्रेषु चरति मद्रचरो मद्रदेशस्वामी शल्य इति । यतः कीदृक् । हृदयं स्पृशति हृदिस्पृग्हृदयज्ञ इत्यर्थः । तथा मध्येगुरून् मध्ये मध्यवयसि वर्तमानान् गुरून् पूज्यानन्तगुरूंश्चान्त्यवयसि वर्तमानान् गुरूंश्च धिन्वन्विनयपूजादिना प्रीणयन् । तथा भस्मनि मीढं सेचनं भस्मनिमीढं तदिव कर्म क्रिया यस्य स भस्मनिमीढकर्मा न तथा सफलकर्मा । खेचरादयो हि हृदिस्पृक्तादिगुणान्विताः ॥
नृणामनन्ते गुरुरेकदाथ सिंहो नु सोमध्यगुरुः सभायाम् । नृपं प्रणम्योरसिलोमकण्ठे कालोपमं मूर्धशिखो न्यषीदत् ॥ १५॥
१५. अथैकदा सिंहो नु मृगेन्द्र इवामध्यगुरुः कृशोदरो नृणामनन्तेगुरुः प्रथमपूज्यो मूर्धनि शिखा शिखण्डिका यस्य स मूर्धशिख: कुमारः सभायां न्यषीदत् । किं कृत्वा । नृपं प्रणम्य । किंभूतम् । महापुरुषत्वादुरसि लोमानि यस्य स तथ यः कण्ठेकालोपम आश्रितानां सर्वकामपूरकत्वात्सोमनाथ तुल्यस्तम् ॥
अत्रान्तरे मस्तकमाल्य ऊचे वेत्र्यर्थशौण्डोञ्जलिहस्तबन्धः । स्वशीर्षकामेण रथः सुचक्रेबन्धोद्य ते प्रेष्ययमङ्गभत्र ॥ १६ ॥
१ ए सी ष्णुः शिल्यो. २ बीच धेन्व'. ३ ए सी 'हो न सो.
१ एसी १४ कुमा. २ बी 'कर्मा: खे• ३ बी स्पृक्त्वादि. ४ बी 'था सन् यः .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org