________________
४५४
व्याश्रयमहाकाव्ये [चामुण्डराजः] १६. अत्रान्तरेस्मिन्प्रस्तावे । वेत्री । नाट्ये तु __पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । विनीतत्वात्तद्रूपो हस्ते बन्धो यस्य स तथा सन् । करौ योजयित्वेत्यर्थः । नृपमूचे । कीदृक् । भोगित्वान्मस्तके माल्यं पुष्पमाला यस्य सः। तथा सदा विज्ञापककार्यनिवेदने व्यापृतत्वादर्थे विज्ञापककार्ये प्रसक्तः शौण्ड इव मद्यप इवार्थान्मद्यपानेर्थशौण्डः । यदूचे तदाह । राजन् स्वशीर्षे कामो यस्य तेन जीवितुमिच्छता सताङ्गभङ्गदेशस्वामिनाद्यायं प्रत्यक्षं प्राभृतीकृतो रथस्ते त्वदर्थं प्रैषि । कीदृक् । शोभनश्चक्रे बन्धो रत्नखचितस्वर्णपट्टादिना रथाङ्गे बन्धनं यस्य सः । उपलक्षणत्वादशेषरथगुणोपेत इत्यर्थः ॥ त्वयेभवन्धो नृपतिः सहस्तेबन्धः कृतो यः कृतचक्रबन्धः। तस्यातिपूर्वाह्नतनांशुमन्पूर्वाह्नेतनाब्जाग्रकरो गजोयम् ॥१७॥
१७. हे अतिपूर्वाहृतनांशुमन्महाप्रतापितया पूर्वाह्नेभवं सूर्यमतिक्रान्त य इभबन्धो बध्नाति अचि बन्ध इभानां बन्धो बन्धको विन्ध्याद्रिस्वामी नृपतिर्बलिष्ठत्वात्कृतश्चक्रे त्वदीयसैन्ये बन्धो बन्धनं येन। यद्वा ।कृतश्चके सैन्ये बन्धो यस्य स तथा सन्संह हस्ते बन्धेन सहस्तेबन्धस्त्वया कृतः । जित्वा हस्तयोर्बद्ध इत्यर्थः । तस्यायं प्रत्यक्षो गजस्त्वदर्थ प्राभृतमस्ति । कीहक् । पूर्वाह्नेतनाब्जाप्रकरः प्रशस्यलक्षणत्वात्प्राभातिकपद्मवद्विकसितरक्तहस्तानः । उपलक्षणत्वाच्छुभलक्षणोपेतसर्वाङ्गः ॥
१ बी संश्रेषा. २ सी ...प्र. ३ ए कार्यप्र. ४ बी नेथे शौ. ५ सी यं प्रा. ६ ए सी डी दि र. ७ ए सी हे इति'. ८ ए बी सी डी तमांशु. ९ सीन्सह स्ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org