SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ चामुण्डराजः ] धातुर्नु शेषः स सहः परस्मैपदाय राज्ञातियुधिष्ठिरेण । अज्ञाय्यरण्येतिलवत्तदन्यस्त्वक्सारवच्चान्तरसार एव ॥ १२ ॥ ४५२ १२. अतियुधिष्ठिरेण सत्यभाषित्वादिगुणैर्युधिष्ठिरमतिक्रान्तेन राज्ञा मूलराजेन स कुमारः परस्मायन्यस्मै शत्रुसंबन्धिने पदाय राज्यरूपाय स्थानाय सहः समर्थोज्ञायि । पूर्वोक्तसर्वनृपगुणोपेतत्वाच्छत्रुलक्ष्मीग्रहणसमर्थो ज्ञात इत्यर्थः। यथा शेष आत्मनेपदोपयुक्तादन्यो भूर्वादिर्धातुः परस्मैपदाय सर्वविभक्त्याद्यवचननवकशतृकसुप्रत्ययेभ्यः सहो ज्ञायते । तदन्यश्चामुण्डराजादपरस्त्वरण्येतिलवदरण्येतिलाख्यवनधान्यभेदववक्सारवच्च वंशवच्चान्तर्मध्येसार एवाज्ञायि ॥ स कीर्तिमुक्तात्वचिसारंकः स्तूपेशाणदैर्दार्षदिपाषिकैश्च । स्म गीयते यूथपशुपदैश्व स्तम्बेरमौजाः खचराधिपश्रीः ॥ १३॥ १३. स कुमारः । स्तूपो गवादिराशि: । शाणः स्वर्णमाष चतुष्टयम् । स्तूपे स्तूपे शाणो देयः । वृत्तौ वीप्साया दानस्य चान्तर्भावः । स्तूपे - शाणः करभेदस्तं ददति ये तैदीषेदिमाषिकैश्च । दृषदि दृषदि माषः पञ्चगुञ्जो देयो दृपदिमाषः करभेदस्तत्र नियुक्तैश्च । यूथं तिरश्चां जातम् । यूथे यूथे पशुर्देयो यूथपशुः करभेदस्तं प्रददति ये तैश्च करपीडाद्यभावेन हर्षाद्गीयते स्म । कीदृशः । स्तम्बेरमौजा गजबलः । तथा खचराधिपश्रीरिन्द्रतुल्यलक्ष्मीकः । तथा कीर्तिमुक्तात्वचिसारको यशोमुक्ताफलेष्वज्ञातवंशतुल्यः । वंशो हि मुक्तायोनिर्वर्ण्यते । यदुक्तम् । 1 हस्तिमस्तकदन्तौ तु दंष्ट्रा शुनवराहयोः । मेघो भुजङ्गमो वेणुर्मत्स्यो मौक्तिकयोनयः । इति ॥ 1 १ ए बी सी 'रकस्तू २ ए सी ' दैदार्थ. १ ए सी डी ने रा° २ बी न्यो भुवादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy