________________
[ है० ३.२.१३.] षष्ठः सर्गः ।
४५१ ब्राह्मणाच्छंसि । इति "ब्राह्मणाच्छंसी" [११] इत्यनेन निपात्यम् ॥
भोजसाकृतम् । अञ्जसात्तः । सहसाकृत । अम्भसाकृत । तैमसाकृतम् । तपसाकृत । इत्यत्र "ओजः" [१२] इत्यादिना टो न लुप् ॥ पुंसानुजायाम् । जर्नुपान्ध। इत्यत्र "पुंजनुष' [१३] इत्यादिना टो न लुप्॥
स मानसाज्ञायिक आत्मनाज्ञाय्यासात्मनाविंश इवाङ्गभाभिः। प्रसन्नयापन्मनसायदेव्यात्मनेपदं पुस्विह डिन्नु धातुः॥११॥
११. स कुमारः प्रसन्नया संतुष्टया मनसेत्याद्यं यस्याः सा या देवी तया मनसादेव्या सरस्वत्या कृत्वेह जगति पुंस्सु(सु?) मध्य आत्मन आत्मार्थं पदं बुद्ध्यादिगुणोन्नतिरूपां पदवीमापत्प्राप । प्रतिभादिगुणैः सर्वनरेषूत्कृष्टोभूदित्यर्थः । शब्दश्लेषोपमामाह । डिन्नु धातुर्यथा ङानुबन्धो धातुर्गाकादिरात्मनेपदं सर्वविभक्तीनां पराणि नव नवं वचनानि कानानशौ चाप्नोति । अत एवं सोङ्गभाभिः सर्वशास्त्रपरिज्ञानप्रकर्षोदूताङ्गतेजोभिः कृत्वात्मनाविं0 इव स्वेन कृत्वा विंशतेः पूरण इव विंशतिगुण इवेत्यर्थः । आस बभूव । कीदृक्सन् । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी विद्वांस्तेन संस्कृतः सर्वविद्याध्यापनेनं कृतसंस्कारः । यद्वा । मनसाज्ञायिभिर्जयति दीव्यति चरति वा इकणि मानसाज्ञायिकोत एव चात्मना ज्ञातुं शीलमस्यात्मनाज्ञायी विषमशास्त्राद्यपि स्वयं सामस्येन जानन् । धातूनामनेकार्थत्वात्सत्तीवृत्तेरसतेरासेत्ययं प्रयोग ईक्षामासेत्यादौ णवन्तानुप्रयोगप्रतिरूपकनिपातस्य वा ॥
१बी °च्छंसी". २ सी डी कृतम् । अ. ३ डी तप०. ४ सी 'नुष्यन्ध ।। ५ सीमार्थप. ६ बी वच. ७ ए सी व साङ्ग. ८बी श इव स्वेन कृत्वा विंश इ. ९ सी न च कृ. १० ए सी स्यामनो ज्ञा. ११ सी वृत्तरा. १२ ए सी ईक्षामा . १३ ए सी पकानि. १४ ए सी डी °स्य च ॥.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org