SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४५० व्याश्रयमहाकाव्ये [चामुण्डराजः] स ब्राह्मणाच्छंसिजनेन्तिकादागते हिमाद्रेस्तपसाकृतोर्जे । त्यक्तान्यकर्मा सहसाकृतोत्थोम्भसाकृता|भिमतान्यदत्त ॥९॥ ९. ब्राह्मणाच्छंसिजने ऋत्विग्विशेषलोकविषये से कुमारोभिमतानि धनादीन्यदत्त । तदिच्छानुसारेणादादित्यर्थः । यतस्तपसा कृतास्तपश्चरणेन विहिता ऊर्जा व्योमगमनादयः शक्तयो यस्य तस्मिंस्तथा हिमाद्रेरन्तिकादागते । औदार्योत्थकीर्तिश्रवणाहूरदेशान्तरेभ्योपि चामुण्डराजसमीपमायात इत्यर्थः । कीडक्सन् । सहसाकृतोत्थः संभ्रमेण झटिति विहिताभ्युत्थानः । तथा त्यक्तान्यकर्मा मुक्तव्यापारान्तरः । तथाम्भसाकृता? जैलेन विहितपादशौचाद्युपचारः॥ ने तेन किं चित्तमसाकृतं वौजसाकृतं वा विकृतं प्रजायाम् । पुंसानुजायां नु यदञ्जसात्तो दोषावलोके जनुषान्धभावः॥१०॥ १०. तेन कुमारेण प्रजायां लोकविषये पुंसानुजायां नु पुंसा करणेन पश्चाजातायामिव लघुभगिन्यामिवेत्यर्थः । किंचित्स्तोकमपि विकृतं विकारो न वा तमसाकृतमज्ञानेन कोपेन वा कृतं न वौजसाकृतं बलात्कारेण कृतम् । यद्यस्मात्तेन प्रजायां विषये पुंसानुजायामिव दोषावलोके जनुषान्धभाव आजन्मान्धत्वमञ्जसात्तः स्नेहेनाङ्गीकृतः । अथ च या प्रजापत्यं तस्यां स्नेहादोषावलोकनाभावेन न केनचित्किचिद्विकृतं तमसा वौजसा वा क्रियत इत्युक्तिः । अन्तिकादागते । अत्र "असत्वे उसेः" [१०] इति ङसेन लुप् ॥ १ ए सी तोजै ।. २ सी न केचि. १ ए सी °ने रुत्वि. २ सी स सकु. ३ सी दाते ।. ४ सी यान्त इ. ५ ए सी डी जनेन. ६ सी कृता अ. ७ सी त्युक्ति ॥. ८ बी °से न लु°. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy