________________
ex
[है० ३.२.९.] षष्ठः सर्गः।
४४९ नारिंमन्यतामप्यभितः सामस्त्येनामुचत् । यतः किंभूते । अनङ्गरूपेपि । अपिरत्र ज्ञेयः । एतेन स्त्रीप्रार्थनीयत्वोक्तिः । परम् । यशस्यति पैरनारीसहोदरोयमित्यादियशोभिलाषिणि । अत एव क्ष्मायाः पृथ्वीस्थलोकस्यापि नये परस्त्रीसेवननिवृत्त्यादिन्यायविषये सूत्रधारे सूत्रधारवत्प्रवर्तके । लोकस्यापि नये प्रवर्तकत्वात्स्वयमत्यन्तं न्यायनिष्ठ इत्यर्थः । यदासौ रूपप्रकर्षण स्त्रीप्रार्थनीयोपि यशोर्थित्वेनातिसदाचारत्वाद्रूपसौभाग्यादिनिधीनामपि साभिलाषाणामपि परस्त्रीणां संमुखमपि नालोकत तदा ता आत्मानं रूपादिगुणहीनं सामान्यस्त्रियोपि निकृष्टं च मेनिर इत्यर्थः ॥
अनङ्गरूपे । मानयसूत्रधारे । यशस्यति । सूत्रधारे । स्त्रैणम् । इत्यत्र अनङ्ग अस । रूप स् ॥क्ष्मा अस् । नय इ । सूत्रधार स् ॥ यशस अम् य ॥ सूत्र अम् धार ॥ स्त्री आम् नञ् ॥ इति स्थिते "ऐकायें" [८] इति स्यादेर्लुप् ॥ ऐकाथ्य इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न स्यात् । अनङ्गरूपे ॥
स्त्रींमन्यताम् । श्रियंमन्यम् । अत्र "न नामि" [९] इत्यादिनामो न लुप्॥ अन्ये वाहुर्यथा प्रेष्ठादयः शब्दा धवयोगास्त्रियां वर्तमानाः स्वं लिङ्गं विहाय स्त्रीलिङ्गमुपाददते तथा श्रीशब्दः स्त्रैणे वर्तमानः स्वलिङ्गत्यागेन वर्तते । ततो नपुंसकलक्षणं हस्वस्वममो लुप्च स्यात् । अश्रिमन्यम् ॥
१ ए सी नारिम'. २ बी मस्तेना. ३ बी नीयोक्तिः ।. ४ ए सी 'त्वोक्ति । प. ५ ए सी यसस्य'. ६ बी परं ना. ७ ए सी डी धार'. ८ ए सी दिधी. ९ डी पि कनिष्ठं च, १० ए सी निष्ट. ११ ए सी र यस् ।. १२ ए सी ते “एकार्थे” इ. १३ बी ति सपदे'. १४ ए सी ° । ऐक्यार्थ इति स्यादेखेंपू । ऐ. १५ सी न्यता । श्रि. १६ ए सी डी दयाः श. १७ ए सी नाः स्वेलि. डी नाः स्वलि. १८ बी था स्त्रीश'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org